________________
२२१
[न दृष्टि तिथिहिन भने पाराधन... दिवसः । स खलु सकलेन समग्रेण च संघेन संभूयाराध्यते । किं तु उपरिनिर्दिष्टे संवत्सरद्वये तदाराधना भिन्नयोरेव दिनयोर्जातेति महत् संघभेदस्थानमेतदिति विषादाकूलैः श्रीसंघप्रधानैः संवत्सरीतिथिनिश्चयार्थं तथा तत्संबद्धानामेवंभूतानामन्येषामपि विवादपदानां निर्णयार्थ द्वयोराचार्ययोर्मतभेदनिराकरणार्थं च बहवः प्रयत्नाः कृताः । निष्फलाश्च ते प्रायः सर्वेऽपि संजाताः । अन्ततो राजनगरस्थजनसंघप्रधानेष्वन्यतमैः श्रेष्टिश्रीकस्तुरभाइमहोदयैरुभयेषामप्याचार्याणामनुमति मधिगम्य विवादस्थानमेतत् कस्मैचित् सर्ववादिप्रतिवादिसंमताय मध्यस्थाय निर्णयार्थं समर्पितव्यं तन्निर्णयश्चोभयैरप्याचार्येनिर्मायं प्रतिपत्तव्य इति निश्चितम् । तच्च मध्यस्थपदं श्रेष्टिश्रीकस्तुरभाइमहोदयानां विज्ञापनामनुरुध्यास्माभिः स्वीकृतम् ।।
श्रेष्ठिश्रीकस्तुरभाइमहोदयैरुभयेऽप्याचार्याः स्वस्थमतप्रतिपादनं न्यायालयप्रविष्टवादिप्रतिवादि मतस्थापनापद्धतिमनुसृत्य लेखारूढं कृत्वा प्रेषितव्यमिति विज्ञापिताः । तां विज्ञप्तिमनुसृत्य आचार्यश्रीसागरानन्दसूरिभिस्तिथिवृद्धिक्षयविषयकाणि नव पदानि विमर्शस्थानानीति कृत्वा तदनुरोधेन स्वसिद्धान्तस्थापनं लेखारूढं कृत्वा श्रेष्टिश्रीकस्तुरभाइमहोदयेभ्यः प्रेपितम् । आचार्यश्रीविजयरामचन्द्रसूरिभिरपि तमेव विषयमधिकृत्य विमर्शार्थं पञ्चविंशतिः पदानि निश्चित्य तदनुरोधेन स्वसिद्धान्तविवरणं विरचितम् । तदपि लेखारूढं कृत्वा श्रेष्ठिश्रीकस्तुरभाइमहोदयेभ्यः पदत्तम् । ततश्चाचार्यश्रीसागरानन्दसूरीणां लेखारूढं स्वमतस्थापनं खण्डनाय परामर्शाय वा आचार्यश्रीविजयरामचन्द्रसूरिभ्यः समर्प्य तन्मतमपि खण्डनार्थमनुविमर्शार्थं वा आचार्यश्रीसागरानन्दसूरिभ्यः प्रदत्तम् । उभयैरप्याचार्यैः स्वीयोऽनुविमर्शो लेखारूढः श्रेष्ठिश्रीकस्तुरभाइमहोदयेभ्यः प्रेषितः । तदेवमुभयेषामप्याचार्याणां स्वमतस्थापनं परपक्षविमर्शश्चेति सर्वमेवैतल्लेखारूढमभूत् । स्वस्वमतस्थापनार्थमुपयुक्ताः शास्त्रपाठा अप्येतैराचार्यः अंशोद्धाररूपेण पत्रारूढाः कृताः । तथा चैतेषां शास्त्रपाठानां मूलपुस्तकान्यपि तत्रस्थस्वसिद्धान्तसमर्थनोपयुक्तान् ग्रन्थसंदर्भविशेषानधोरेखाङ्कितान् कृत्वा प्रेषितानि । ततश्च श्रेष्ठिश्रीकस्तुरभाइमहोदयः उभयेषामप्याचार्याणां स्वस्वमतस्थापनम् परपक्षप्रतिक्षेपपुरःसरं पुनः स्वमतप्रतिष्ठापनम्, शास्त्रपाठाः, शास्त्रपुस्तकानि च सर्वाणि पूर्वावलोकनाय मध्यस्थाय समर्पितानि । मध्यस्थश्च सर्वेषामेषामापाततः पूर्वावलोकनं कृत्वा वादिप्रतिवादिनोर्मोखिकपरीक्षार्थं सिद्धगिरेरुपत्यकायां प्रतिष्ठितं पल्लीस्थानाभिधं पालिठानानगरं गतः । तत्र च तेन प्राश्निकपदमध्यास्य दिनचतुष्टयपर्यन्तमुभयेषामप्याचार्याणां मतानि तत्कृतः प्रतिवादिमतनिरासश्च विस्तरेण श्रुतः । उभयेऽपि आचार्याः केवलं स्वशिष्यमेकं गृहीत्वा प्राश्निकस्य पुरतः समुपस्थिताः । न कस्यापि न्यायविधिविशारदस्य लौकिकस्य साहाय्यमन्यतरेणापेक्षितं नापि तन्मध्यस्थेनोत्प्रेक्षितम् । तथापि महदेतत्प्रमोदस्थानं मध्यस्थस्य यदेतादृशं साहाय्यमनपेक्ष्यैव उभयैरपि आचार्यः स्वस्वमतस्थापनं परपक्षनिरासश्च न्यायालयविवादपदसरणिमनुसृत्य प्रायो यथावसंपादितः। प्रश्नप्रतिप्रश्नप्रवाहे च प्रायो गीर्वाणवाण्या एवोपयोगः कृतःक्वचिञ्च गुर्जरभाषायाः क्वचिच्च हिन्दीभाषायाः। प्रश्नप्रतिप्रश्नप्रवाहस्यान्ते पतनिर्धारितमासीद् यद्विवादेऽस्मिन्ननुद्दिष्टानां ग्रन्थानां, शास्त्रादीनां, तथा च कालिकपत्रादिषु मुद्रितानां लेखादीनां मध्यस्थेन विमर्शो नैव कार्यः। तथा च मध्यस्थनिर्णयः उभयैरप्याचा निर्मायं स्वीकर्तव्य इत्यपि तैः श्रेष्ठिश्रीकस्तुरभाइमहोदयानां समक्षमेव स्वहस्तपुरःसरं प्रतिपन्नम् ।
आचार्यश्रीसागरानन्दसूरिभिरुत्थापितानां नवानां विवादपदानां तथा आचार्यश्रीविजयरामचन्द्रसूरिभिरुत्थापितानां पञ्चविंशतिसंख्याकानां विवादपदानाम्, तथा तैः प्रेषितस्य स्वमतसमर्थनस्य प्रतिपक्षखण्डनस्य च, तथा मध्यस्थेन कृतायामुभयेषामप्याचार्याणां मौखिकपरीक्षायां समधिगतानां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org