________________
...साही यान अन्ते आसा सवाश्रीना निर्णय ]
૨૨૫ तिथिवृद्धिक्षयमुद्दिश्याचार्यश्रीसागरानन्दसूरीगां तथा आचार्यश्रीविजयरामचन्द्रसूरीणां विवादे
मध्यस्थस्य निर्णयपत्रम् ।
मध्यस्थः पुण्यपत्तनस्थवाडियाकॉलेजाख्यविद्यामन्दिरनियुक्तः एम्. ए., तथा डी. लिट. इत्युपाधिद्वयधारी संस्कृतप्राकृतादिभाषाप्रधानाध्यापकः
वैद्योपाह्वः श्रीपरशुरामशर्मा उमास्वातिवचःप्रघोषत्वेन प्रसिद्ध 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा' इति श्लोकार्धमुद्दिश्य आचार्यश्रीसागरानन्दसूरीणां तथा आचार्यश्रीविजयरामचन्द्रसूरीणां तिथिक्षयवृद्धिविषयको महान् मतभेदः प्रादुरभूत् । स च मतभेदः इत्थं समुत्तिष्ठति । यदा योधपुरीयचण्डांशुचण्डुपञ्चाङ्गे तिथीनां, विशेषतः पर्वतिथीनां, क्षयो वृद्धि प्राप्नोति तदा आराधनार्थं का तिथिः स्वीकर्तव्येति विषयमिममधिकृत्योभयेषामप्युपरिनिर्दिष्टानामाचार्याणां भिन्नमेव प्रस्थानंप्रादुरासीत् । तदस्मिन् विषये आगमादिशास्त्राणां पर्यालोचनेन तथा जीतव्यवहारसमालोचनेन च कतरस्य प्रस्थानस्य प्रामाण्यं शास्त्रसिद्धत्वं चेति प्रश्नस्य निर्णयार्थ प्रवृत्ता वयम् ।
विक्रमार्कसंवत्सरस्य १९९२ तमे तथा १९९३ तमे संवत्सरे भाद्रपदमासस्य शुक्लपक्षे चण्डांशुचण्डुपश्चाङ्गानुसारेण पञ्चम्यास्तिथेवृद्धिदृष्टा । सा च पञ्चमी युगप्रधानकालकाचार्यसमयात्प्राक् चतुर्विधस्यापि श्रीजैनसंघस्य सांवत्सरिकप्रतिक्रमणस्य तिथिरिति पर्वतिथित्वेन प्रसिद्धिमगात् । आचार्यश्रीसागरानन्दसूरिभिरद्यापि सा प्रधानपर्वतिथिरिति प्रतिपाद्यते । कालकाचार्यैस्तु कस्यचिद्राज्ञो विज्ञप्तिमनुरुध्य इन्द्रमहनाम्ना प्रसिद्धन भाद्रशुक्लपञ्चम्यां निश्चितेन देशविशेषे प्रसिद्धेन सर्वजनस्वीकृतेन महोत्सवेन विरोधो मा भूदिति भाद्रशुक्लपञ्चमी परित्यज्य भाद्रशुक्लचतुर्थ्यां सांवत्सरिकं प्रतिक्रमणं संक्रामितम् । ततः प्रभृति भाद्रशुक्लपञ्चमीस्थाने भाद्रशुक्लचतुर्थी सांवत्सरिकप्रतिक्रमणस्य दिवस इति सर्वेणापि श्रीजैनसंघेन स्वीकृता । एवं च पञ्चमीस्थाने भाद्रशुक्लचतुर्थी पर्वतिथिः संाता संवत्सरीति लोके प्रसिद्धा । तस्यामेवाद्यतनः सकलोऽपि श्रीजैनसंघः सांवत्सरिक प्रतिक्रमणं समाचरति । किं तु चण्डांशुचण्डुपञ्चाङ्गे भाद्रशुक्लपञ्चम्या वृद्धिं दृष्ट्वा आचार्यश्रीसागरानन्दसूरिभिः १९९२ तमे विक्रमार्कसंवत्सरे तृतीयाया वृद्धिं कृत्वा प्राप्तायां चतुर्थी, लौकिकपञ्चाङ्गानुसारेण तु प्रथमपञ्चम्यां, रविवासरे संवत्सरी समाराधनीया इति स्वशिष्येभ्यः समादिष्टम् । आचार्यश्रीविजयरामचन्द्रसूरिभिस्तु लौकिकपञ्चाङ्गानुसारेण प्राप्तायां चतुर्थी शनिवासरे सा समाराधनीयेति स्वशिष्येभ्यः समाक्षप्तम् । आगामिनि १९९३ तमे विक्रमार्कसंवत्सरेऽपि लौकिकपञ्चाङ्गानुसारेण भाद्रशुक्लपञ्चम्या वृद्धिरभूत् । तदापि आचार्यश्रीसागरानन्दसूरिभिस्तृतीयाया वृद्धि कृत्वा प्राप्तायां चतुरा, लौकिकपञ्चाङ्गानुसारेण तु प्रथमपञ्चम्यां, गुरुवासरे संवत्सरीसमाराधनं निश्चितम् । आचार्यश्रीविजयरामचन्द्रसूरिभिस्तु लौकिकपञ्चाङ्गानुसारेण प्राप्तायां चतुर्था बुधवासरे तदाराधनं कर्तव्यमिति निश्चितमासीत् । तच्छिष्यैः साधुभिः श्रावकैश्च स्वस्वा. चार्यनिदेशमनुसृत्य तथानुष्ठितम् ।।
संवत्सरी नाम सकलस्यापि श्वेताम्बरमूर्तिपूजकजैनसंघस्य पर्युषणापर्वमध्यपतितः पावनो
૨૯
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org