SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ - - - ૨૪૫ ...सवादी यान अन्ते आवेला सवाश्रीना निर्णय ] तरच तत्प्रचार इत्येतेनैव कारणेन विवादेऽस्मिस्तेषां निग्रहः । आधुनिकैः सर्वैरपि तपागच्छीयैश्चण्डांशुचण्डुपञ्चाङ्गमाश्रित्य लौकिकव्यवहाराः क्रियन्ते, सिद्धान्तटिप्पणाभावाच लोकोत्तरा अपि आराधनास्तदेवाश्रित्य कर्तुं समुचिताः । जीतव्यवहारसिद्धये चैभिरुदाहृतानि शास्त्राणि शास्त्राभासानीति जीतव्यवहारासिद्धिः । आचार्यश्रीविजयरामचन्द्रसूरयोऽपि संविग्नगीतार्थाः प्रवचनपटवश्च । विद्यया तपोनुष्ठानेन प्रवचनपाटवेन च तपागच्छीयानामेतेऽपि बहुमता एव । स्वसिद्धान्तप्रतिपादनं चैभिः प्रबलाभिर्युक्तिभिः समर्थितम् । आधुनिकैनैरभ्युपगते पञ्चाङ्गे तिथ्यादिपरिवर्तनमसहमानैः शास्त्रेषु च तादृशपरिवर्तनसमर्थकानि प्रमाणान्यनधिगच्छद्भिः 'सार्वजनीनं किमपि पञ्चाङ्गमाश्रित्य लौकिकवल्लोकोत्तरोऽपि व्यवहारः प्रवृत्त इति स एव समर्थनीयः' इति धियैव तैराचार्यश्रीसागरानन्दसूरीणां प्रतिपक्षत्वं स्वीकृतं प्रबलाभियुक्तिमिश्च स्वाभिमतं समर्थितम् । उमास्वातिवचम्प्रघोषस्याध्याहारादिवर्ज तथा पर्वापर्वतिथिविभागवर्ज च यथार्थमर्थमनुरुध्यमानैरेभिः स्वमतं समर्थितमित्येव तेषामभिप्रायो मध्यस्थेनाभ्युपगतः । यद्यपि विवादेऽस्मिन्नेषामाचार्यश्रीसागरानन्दसूरिभिर्विरोधस्तथापि तेषां वैदुष्यं संविनगीतार्थत्वमागमोद्धारकत्वमेभिरपि बहु मन्यते इत्यत्र नास्ति नः कोऽपि संशयावकाशः। पुण्यपत्तनात् । १९९९ तमे ) वैक्रमीयसंवत्सरे ज्येष्ठशुक्लप्रतिपदि गुरुवासरे स्वहस्तोऽयं मध्यस्थस्य वैद्योपाह्वश्रीपरशुरामशर्मणः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005673
Book TitleTithidin ane Parvaradhan tatha Arhattithibhaskar
Original Sutra AuthorN/A
AuthorJain Pravachan Pracharak Trust
PublisherJain Pravachan Pracharak Trust
Publication Year1977
Total Pages552
LanguageGujarati, Hindi, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy