________________
[१८] रम्ये व्यन्तरसत्कभीमनगरव्यूहे सुरत्नोज्ज्वले, . श्रीसिद्धायतनानि सन्ति गणनातीतानि चैत्यानि च । तेभ्यः सङ्ख्यगुणानि चैत्यभवनान्यन्तः सदा ज्योतिषां, तत्र श्री-ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥२॥ सौधर्मादिविमानराजिषु तथा ग्रेवेयकाण्युत्तरस्वर्गेष्वस्ति सहस्रसप्तनवतिः शुद्धास्त्रयोविंशतिः ।। चैत्यानामभितश्चतुरधिकाशीतिश्च लक्षाः सदा, तत्र श्री-ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥३॥ वैताढ्येषु शतं च सप्ततियुतं नित्यं तथा विंशतिः, चैत्यानां गजदन्तकेषु नवतिः कुर्वध्रिपेषु स्थिताः । त्रिंशद् वर्षधरेषु मेरुषु तथाशीतिश्च पञ्चाधिकाः, तत्र श्री-ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥४॥ प्रत्येकं रुचकेषु मानुषनगे चत्वारि सत्कुण्डले, चत्वार्यायतनानि सन्ति सततं सर्वेषुकाराद्रिषु । वक्षस्कारगिरिष्वशीतिरनघा नन्दीश्वरे विंशतिः, तत्र श्री-ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ।।५।। वैताढये स्थन पुरादिनगरस्तोमे विदेहेष्वपि, क्षेमादिर्नगरव्रजोऽस्ति भरतेऽयोध्या तथैरावते । सौर्य कुण्डपुरं तथा गजपुरी चम्पा च वाणारसी, - तत्र श्री-ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org