________________
[ १६ ]
कर्णाटे हेमकूटे विकटतरकटे चक्रकूटे च भेदे, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे || ४ ||
[५] श्रीमाले मालवे वा मलयिनि निषधे मेखले पिच्छले वा, नेपाले नाले वा कुवलयतिलके सिंहले केरले वा डाहाले कोशले वा विगलितसलिले जङ्गले वा तमाले, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ||५||
[६]
अङ्गे वङ्गे कलिङ्गे सुगतजनपदे सत्प्रयागे तिलङ्गे, गौडे चौडे मुरङ्गे वरतरद्रविडे उद्रियाणे च पौण्ड्रे । आद्रे माद्रे पुलिन्द्रे द्रविड कुवलये कान्यकुब्जे सुराष्ट्रे, श्रीमत् तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे || ६ || [७]
चम्पायां चन्द्रमुख्यां गजपुरमथुरापत्तने चोजयिन्यां, कौशाम्ब्यां कौशलायां कनकपुरवरे देवगिय च काश्याम् । नाशिक्ये राजगेहे दशपुरनगरे भद्दिले ताम्रलिप्त्यां श्रामन्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ||७|| [८]
स्वर्गे मत्येऽन्तरिक्षे गिरिशिखरद्र हे स्वर्नदीनीरतीरे, शैलाग्रे नागलोके जलनिधिपुलिने भूरुहाणां निकुओ
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org