________________
[ १५५ ]
श्रीतीर्थ - वन्दना - स्तवनम् ।
[ स्रग्धरा-वृत्तम् ]
[१]
सद्भक्त्या देवलोके रविशशिभवने व्यन्तराणां निकाये, नक्षत्राणां निवासे ग्रहगणपटले तारकाणां विमाने । पाताले पन्नगेन्द्रे स्फुटमणिकिरणे ध्वस्तसान्द्रान्धकारे, श्रामत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि चन्दे ||१||
[२] वैताये मेरुशृङ्गे रुचकगिरिवरे कुंडले हस्तिदन्ते, वक्षारे कूटनंदीश्वर - कनकगिरौ नैषधे नीलवन्ते । चित्रे शैले विचित्रे यमकगिरिवरे चक्रवाले हिमाद्रौ श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे || २ || [ ३ ] श्री शैले विध्यशृङ्गे विमलगिखिरे ह्यर्बुदे पावके वा, सम्मेते तारके वा कुलगिरिशिखरेऽष्टापदे स्वर्णशैले । सह्याद्री वैज्जयन्ते विपुलगिरिवरे गूर्जरे रोहणाद्रौ, श्रीमत् तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे || ३ || [४] आघाटे मेदपाटे क्षितितटमुकुटे चित्रकूटे त्रिकूटे, लाटे नाटे च घाटे विटपि - घनतटे देवकूटे विराटे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org