________________
अथ प्रशस्तिः
(शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः जिह्वाखण्डितशक्रसंशयचयो, वाड्नष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः दाढादारितदिव्ययुत्समवतात्-श्री वर्धमानो जिनः ॥१॥
(वसंततिलका) श्रीवीर-गौतम-सुधर्मगणेश-जम्बू
स्वाम्यादिपट्टधरसूरिगणः पुनातु । 'श्रीहेमचन्द्रयतिचन्द्र' 'जगत्सुचन्द्र'
श्रीहीरसूरि-वृषभाश्च शिवं दिशन्तु ॥२॥ एतन्महर्षिशुचिपट्टपरंपराजान्
आनन्दसूरिकमलाभिधसूरिपादान् । संविज्ञसंततिसदीशपादान् प्रणम्य ... श्रीवीरदानचरणांश्च गुरुन् स्तविष्ये ॥३॥ श्रीदानसूरिवरशिष्यमतल्लिका स
· श्रीप्रेमसूरिभगवान् शममग्नयोगी । सिद्धान्तवारिवरवारिनिधिः पुनातु . चारित्रचन्दनसुगन्धिशरीरशाली ॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org