________________
૨૨૦ एकाशनानि तावंति तीर्थयात्रा त्रिकं तथा । गुरुसंघविदां पूजा पात्रे दानं तथैव च ॥ १४ ॥ कोशवृद्धिज्ञातेर्भुक्तिर्जिनोपवीतधारणम् । तीर्थोषधिजलस्नानं सर्वं पूर्ववदाचरेत् ॥ १५ ॥ तदा शुद्धिं च संप्राप्तः पंक्तियोग्यो भवेत् स हि । अग्निपातादिमरणजन्यदोषे समागते ॥ १६ ॥ तच्छुद्धयर्थमयं दंडः प्रोक्तश्च जिनशासने । एकभक्तानि पंचाशत् चतुर्थाः पंचविशतिः ॥ १७ ॥ आचाम्लाश्च दश ख्यातास्तीर्थयात्रात्रयं तथा । साधर्मिकानां वात्सल्यत्रयं च ज्ञातिभोजनम् ॥ १८॥ जिनपूजास्तथा तिस्रः सत्पात्रे दानमुत्तमम् । गुरुसंघसपर्या च सर्वमन्यच्च पूर्ववत् ॥ १९ ॥ इति कृत्वा भवेच्छुद्धोऽन्यथा पंक्तिबहिष्कृतः । ब्रह्महत्यादिकर्ता ना तच्छुद्धयर्थमयं विधिः ॥ २० ॥ चतुर्थभक्ताः द्वात्रिंशत्पंचाशत् चैकभुक्तयः । आचाम्ला वर्धमानाश्च गुरोरालोचना क्रिया ॥ २१ ॥ तीर्थयात्रापंचकं च जिनोपचितिपंचकम् । संघपूजा गुरोर्भक्तिर्वात्सल्यं समधर्मिणाम् ॥ २२ ॥ ज्ञानमानं जातिमानं सप्तक्षेत्रे धनव्ययः । पात्रदानं भावशुद्वया विधायेति भवेच्छुचिः ॥ २३ ॥ अन्यथा पंक्तिहीनः स्यात् ज्ञातिदंड्यो हि सर्वथा । आद्यवर्णत्रयाणां च शूद्रादीनां प्रसंगतः ।। २४ ।। भवेन् मिश्रं चान्नपानं तस्य शुद्धिरियं स्मृता । पूजैका तीर्थयात्रैका नवाचाम्ला निरंतरम् ॥ २५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org