SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 300 કર્મપ્રકૃતિ न्यायविशारद् न्यायाचार्य महोपाध्याय श्री यशोविजयजी गणिवराणां गुणानुवाद स्तुतिः (आर्या वृत्तम्) = = = = = = = = भक्तया वं प्रणमामो, वाचकवर्यं यशोविजयगणिनम् । जिनशासनाम्बरं यो, भासितवान स्वीयवाक्किरणैः ॥१ ॥ देशे गूर्जरसंज्ञे, ग्रामं 'कन्होडु' नामकं रम्यम् । यो निजजनुषा धीमान्, पावितवान् शस्यतमचरितः ॥२॥ सोहागदेर्यदीया, जननी नारायणश्च यस्य पिता । धन्यौ तौ संसारे, यो सुषुवावे सुतं विरलम् ॥३ ॥ पण्डितनयविजयाऽऽह्यो, गुणगणनिलयोऽभवद् यदीयगुरुः । यद्वचसा प्रतिबुद्धोऽ गृहणाद् वाल्ये स चारित्रम् ॥४॥ राजनगरवास्तव्यो, धन्यो धनजी-सुराभिघो धनिकः । यटोरितो हि काश्यां, गतो गुरुः शिष्यजसकालितः ऐड्कारमन्त्रजापा - दुपगडं भारती समाराध्य । तस्याः स हि वरमापत्, कवित्व - वाञ्छासुद्धसमम् भट्टाचार्यसमीपे, चिन्तामण्यादिकं स समधीत्य । षड्दर्शनमर्मज्ञो, विधविधविद्यासु विज्जातः ॥७॥ न्यायविशारद - न्याया-चापर्योपाधिं हि सदसि धीराणाम् । बाते विजयप्राप्त्या, प्रीताः प्राज्ञा ददुर्यस्मै ॥८ ॥ कः खलु विषयोऽवन्या, का वा भाषास्ति यत्र पूज्यानाम् । न प्राक्र्तत वाणी, गये पद्ये च निर्वाधा ॥९ ॥ प्रोन्मथ्य शास्वसिन्धु, निजमतिमन्येन धीरघुर्येण । रचिता विविधाः कृतयो, मुकुटायन्तेऽधुना विश्वे ॥१०॥ यद्विरचित - वैराग्य - कल्पलता ऽध्यात्मसारमुख्यकृतिम् । श्रुत्वा च ज्ञानसार - मधियायात् को न वैराग्यम् ॥११॥ दर्भावतीपुरे य - चिरतरमाराध्य संयमं वय॑म् । स्वतः ससमाधि - यताद् बुधसत्तमः स सदा ॥ १२ ॥ गतवानिति कः कथयति, जीवति योऽद्यापि सदयशः कायैः । प्रतिपातः प्रतिचैत्यं, गीयन्ते यस्य स्तवनानि ॥ १३ ॥ यच्छुतवार्घि दृष्टवा, सर्वेऽपि भवन्ति विस्मयग्रस्ताः । कथमेकाकी कृतवान् ?, बद, किमसाध्यं सरस्वत्याः ॥१४॥ इति वाचकावतंसं, मुनिजनमान्यं यशोविजयगणिनम् । नेम्यमृत - देवशिष्यः, स्तुतवान्ननु हेमचन्दराऽऽह्वः ॥ १५ ॥ रचयिता - पूज्याचार्य श्री विजय देवसूरीश्वरान्तिषद् विजय हेमचन्द्रसूरिः वि.सं. २०४४ विजया दशमी = Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.005572
Book TitleKarm Prakruti Part 01
Original Sutra AuthorN/A
AuthorKailashchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages550
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy