________________
___20 श्री विक्रमगुरु गुण स्तुतिः
(इन्द्रवज्रा) छायापुरौ यस्य शुभावतारं, वक्त्राकृति निर्मल चन्द्रतुल्याः । आकर्षिता पौर चकोरकाणां, तं नौम्यहं विक्रमसूरिवर्यम् ॥ १ ॥ तातेन दत्तं शुभ बालुनाम, दक्षत्वमीक्ष्याकथयजनोऽहो । बुद्धिः प्रकृष्टा शिशुकाल मध्ये, तं नौम्यहं विक्रमसूरिवर्यम् ॥ २ ॥ संसार भोगाः खलु वर्जनीयाः ग्राह्यं सदैकं सुखदं व्रतं च । दीक्षा गृहीतेति विचार्य येन, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ३ ॥ हर्तुं समीरो जनमोहधूलिं, प्रौढ-प्रतापी तपनेन तुल्यः । शिष्योडुश्चेन्दु समोविभाति, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ४ ॥ वात्सल्यपूर्णं हृदयं विशालं, यन्नेत्र युग्मं हि विकार हिनम् । वक्त्रं पवित्र विमलो विचारः, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ५ ॥ . क्रोध श्च लोभश्च मद श्च माया, आत्म प्रशंसा च परस्य निंदा । यस्यान्तरे नैव कदापि दृष्टाः, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ६ ॥ माध्यस्थ मैत्री करुणा प्रमोदः, एवं सुभावैः खलु शुद्धि चित्तः । न्याये च वादे च मति विशुद्धा, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ७ ॥ विश्वैक सद्वांछित दानदक्षं, यदर्शनं सौख्यकरं नृणां च ।। चेतस्सदा यज्जिन भक्ति रक्तं, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ८ ॥ दीपपृया जिता येन सुवर्णकान्तिः, नादेन चांभोदरवो जितोऽस्ति । । बुद्ध्या जितो येन बृहस्पतिश्च, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ९ ॥ भक्तामर स्तोत्रमहर्निशं च, प्रातः पठित्वा जिनसद्म मध्ये । विस्तारितो यन्महिमा जगत्यां, तं नौम्यहं विक्रमसूरिवर्यम् ॥ १० ॥ सम्मेत शैलस्य च शाश्वताद्रेः, यात्राः ससंघेन कृता मनोज्ञा । श्री वीर 'कल्पेन' यशोऽर्जितं च, तं नौम्यहं विक्रमसूरिवर्यम् ॥ ११ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org