________________
अस्यां कृतौ 'लोकस्योच्चताप्रमाणं, मध्यलोक-जम्बूद्वीप- ज्योतिर्लोकानां विस्तृतं प्रमाणं, सूर्य-चन्द्र- ज्योतिष्कदेवानां विमानानि जिनमन्दिराणि भवनानि गमनक्षेत्राणि तारकाः नक्षत्राणि चेति विषयाणां सम्यग्शास्त्राणामाधारेण विहितं तथा प्रान्ते भू - भ्रमण - सिद्धान्तस्यापि खण्डनं कृतमस्ति । पाठकानां ज्ञानवर्धनाय मानचित्राणि सूच्यश्चापि विद्यन्ते । अस्यापि पुस्तकस्य प्रकाशनं हस्तिनापुरादेव सम्पन्नम् । उपसंहार :
एतेभ्यो ग्रन्थेभ्य इदं स्पष्टं भवति यज्जैनाचार्या अध्यात्म-ग्रन्थेषु यथा दत्तावधाना आसंस्तथैवाध्यात्मसिद्धये सहयोगिनोऽस्य भूगोलखगोलात्मक बोधविषयस्यापि परिशीलने परिष्करणे 'च दत्तावधाना अवर्तन्तेति ।
उपरि - निर्दिष्टा ग्रन्थाः केवलं प्रतिनिधिभूता एव सन्ति । एतैरतिरिक्ता अपि बहवो ग्रन्था विषयमिमं विवेचयन्ति तेषां गणना दुःशकैव ।
एवमेव जैन - पुराणेष्वपि भूगोल - स्वगोल - विषय- प्रतिपादकानि विवरणानि सुबहूनि लभ्य न्ते । त्रिषष्टिशलाकापुरुषचरित्रे हरिवंशपुराणे
२५
Jain Education International
तः ७ सर्गान् यावत् ), महापुराणे, चउपण्णमहापुरिसचति - यदिगुणालंकारादिषु च त्रैलोक्यवर्ण नानि परिशीलनीयानि विद्यन्ते ।
एतेषामाधारेण साम्प्रतिकानां विज्ञानवादिनामिदं कथनं सर्वथा वितथं भवति यत् ' पूर्वे ग्रन्थकर्तारो भूगोल - खगोलतत्त्वज्ञा नासन्
वक्ष्मता विषयमिमं परिशीलितवन्तश्चेति ।' विज्ञानवादे कल्पनायाः प्रचुरता विद्यते । प्रतिपदं तेषां निर्णयाः परिवर्तन्ते । नवीनशोधात् परं पूर्वशोधितस्य खण्डनं स्वत एव भवति । परमेतेभ्यो ग्रन्थेभ्य पुरातनकालात् प्रवर्तिता दृढनिश्चयात्मिका विश्वविज्ञानसम्बन्धिनी वास्तविकता कदापि कुत्रापि न विलुप्ता, न केनापि खण्डिता, न चाग्रेऽपि कोऽपि खण्डनं कर्तुं समर्थो भविष्यति ।
1
यत् त्रिकालाबाधितं तदेव सत्यं भवति । सत्येन भवति विमति र्नवा तिष्टति विकृतिः ।
अत एवास्तीदं निवेदनम्
विज्ञानवादो मिथ्यैवानल्पं जल्पति कल्पितम् । विस्मृत्य तस्मिंस्तु मास्म श्रद्धां वृथा कृथाः ॥
For Personal & Private Use Only
www.jainelibrary.org