________________
जैन - ज्योतिषे सूर्यदय *
तीयाः आर्यभटकालतः पूर्वं शुद्ध वर्षमानं नाज्ञासिषुरिति " तन्निरस्तं भवति । अस्य वर्षमानस्य उपयोगः अजायत अपि न वा इति विचारणीयोऽयं विषयः । पञ्च - सिद्धान्तिकायां पितामहादि -- सिद्धान्तीय वर्षमानैः तुलनायां कृतायाम् एतत् स्पष्टीभवति यत् क्रमेण शुद्धतर - शुद्धतम - वर्षमानानि प्रायुज्यन्त इति । किञ्चैतदवधेयम् यत् एतत् वर्षमानं सायनमेव । वेदाङ्ग - ज्यौतिषात् सिद्धान्ताभ्युदयात् पूर्वम् अत्र विश्लिष्टं वर्षमानं भृशं महत्त्वपूर्णम् इति ज्यौतिषेतिहासज्ञाः जानीयुः ।
एनं विषयम् अवलम्ब्य पाटरणनगरे ( उत्तर-गुर्जरस्थे ) गतस्य वर्षस्य ( ख्रीस्ताब्दस्य १९७८ ) अन्तिमे दिने उपास्थापयम् एतान् विचारान् पौर-जन-सभायां पूज्य - पादश्रीमदभय सागर-महोदयानां समक्षम् । साधारण - जनबोधार्थमेव एष निबन्ध: लिखित: । प्रस्तूयमाननायां सूर्यप्रज्ञप्ति टीकायां विशेषरूपेण उपबृंहितः गरिणत - सिद्धान्तैः विश्लिष्टः एष विषयः तत्रैव द्रष्टव्यः । सूर्यद्वयान्तरादि - व्यवस्था चापि तत्रैव दर्शिता ।
अस्मिन् शोधकार्ये अहमदाबादस्थ - वर्धमान - पेढी अर्थ - साहाय्यं करोति श्रतः धन्यवादान् निवेदयामः -पूज्यचरणाः श्रीमन्तः प्रभयसागर - महोदयाः उत्साहनाय तथा च प्रेरणाय, पंजाबी विश्वविद्यालय फिजिक्स विभागाध्यक्षाः डा० सूदमहोदयाश्च सौविध्यप्रदानाय धन्यवादार्हाः ।
१५
सन्दर्भ-ग्रन्थाः
प्रपद्यते श्रविष्ठादौ सूर्याचन्द्रसावुदक् ।
सार्पार्ध दक्षिणास्तु नाथश्रावरणयोः सदा ॥
" सूर्य प्रज्ञप्तिः " आचार्यश्रीमलयगिरिकृत - संस्कृत - टीका - सहितः मूलपाठः । श्रीअमोलकऋषि - कृता हिन्दी टीका, तथा च श्रीघासीलाल - कृता टीका अपि लभ्यते ।
लेखक: “ जैन- सिद्धान्त - ज्यौतिष-विषये " विदेशेषु इंग्लैण्ड- स्काटलैण्ड - फिनलैण्डादिषु तथा च भारते बहुत्र विश्व विद्यालयेषु, सभासु च प्रभाषिष्ट । एतेषु भाषणेषु एताः धारणाः उपातिष्ठपद् इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org