________________
* जम्बूद्वीप
यदि सूर्यक्रान्तिः = s तदा दैनिकी क्रान्तिगतिः ( = 4) एकस्मिन् अयने एकस्मिन् गोलार्धे मासत्रयमध्ये केवलं सार्धकमासाय एव' आसन्ना भवति.। सूर्यप्रज्ञप्त्या पठिताः वेधाः तस्मिन् एव समये कृताः स्युरिति प्रतीयते । अथवा विषुवदिनासन्नदिनेष्वेव मण्डल-मानानि तदन्तर-मानानि च वेधैः असाध्यन्त इति निश्चप्रचम् । . उत्तरायण-बिन्दुतः दक्षिणायन-बिन्दु प्रति गच्छन्तं वा दक्षिणायन-बिन्दुतः उत्तरायण-बिन्दु प्रति गच्छन्तं सूर्य कतिपयानि दिनानि यावत् प्रातः उदय-समये प्रत्यहं वेधेन विलोक्य वृत्ते मण्डलानि अङ्कितानि । चित्रम् ( १ )। तानि खलु भारतैरावतनामभ्यां निर्दिष्टानि । षण्मासानन्तरं ( वस्तुतः १८३ दिनानन्तरं ) सूर्यस्य केन्द्रं वेधसमये तत्रैव अङ्कित-बिन्दौ न लभ्येत इति तु स्पष्टमेव । एकस्मिन् पदे प्रायः सर्वेषु मण्डलेषु ऐरावतास्येषु अन्यस्मिश्च पदे भारताख्येषु मण्डलेषु चरेत् इति । एवं चीर्ण-प्रतिचीर्णमण्डल-चार-विचारणायाम् ( प्रथम-प्राभृतस्य द्वितीयस्मिन् प्राभृत-प्राभृतें ) उल्लिखिताना तथ्यानां सत्यापनं जायते इति । अत्र गणित-सिद्धान्तदृष्ट्या अधिकं न विविच्य एतदेव प्रतिपिपादयिषुरस्मि यत् यदि कतिपयानि वर्षाणि यावत् वेधः क्रियेत तवा सूर्य: कलान्तरात् ( Phase difference ) हेतोः कदाचन ऐरावत-मण्डलेषु कदाचन च भारत-मण्डलेषु चरन् दृश्यते इति स्फुटं जायेत । मण्डलानाम् ऐरावत-भारत-नामनी एव लक्षणात्वृत्त्या सूर्यस्य ऐरावत-भारतनामभ्याम् अभिधाने कारणे विद्यते इति मन्ये । एवं च दक्षिणायनोत्तरायण-गति-कलान्तर-भेदेन सूर्यद्वय-सिद्धान्तस्य व्यवस्था दर्शयितु शक्यते इति । तथा च चीर्ण-प्रतिचीर्णार्धमण्डल-चारविचारणायां यत् उक्तम् "तं सतमेगं चीतालम्" ( शतमेकं चतुश्चत्वारिंशत् = १४४ भागाः ) इति अतः सूर्यः अयनान्तिमदिनयोः पूर्णान्यमण्डलात् अधिकान् २० भागान् लङ्घते इति । एवं च वर्षमानं ३६५ + २ = ३६५ ५ = ३६५ १ दिनानि = ३६५ दि० । १०५० (स्वल्पान्तरेण) सिद्ध्यति इति विचारणीयोऽयं विषयः । वर्षमान-संशोधनार्थमेते वेध-विषयाः प्रायुज्यन्त इति तु नात्र सन्देहः ।
आचार्य-श्री-मलयगिरि-महोदयः अत्र स्थले व्याख्याने सन्देहः प्रकटितः । तथा हि
यदत्र कुर्वता टीका विरुद्ध भाषितं मया । . क्षन्तव्यं तत्र तत्त्वज्ञैः शोध्यं तच्च प्रयत्नतः ।। अत्र उपस्थापितया शोध-विचारणया तु वर्षमानस्य शुद्धतरं वेध-प्राप्तं मानं ज्ञातं तच्च नितरां महत्त्वपूर्णम् इति बोध्यम् । यदुच्यते वैदेशिकः विद्वद्भिः यत् " भार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org