________________
जैन-ज्योतिषे सूर्यद्वय".* कत्वेन स्वीक्रियन्ते । जैन-ज्योतिषे वेदाङ्गज्यौतिष-सिद्धान्तापेक्षया दृश्यते भृशम् उन्नतिः इत्यस्ति कतिपयान् तद्गत-विषयान् अवलम्ब्य शोध-कार्यं कृतवतो मे धारणा ।
अधुना सूर्य-प्रज्ञप्ति-विषये पूज्यचरण-पन्यास-श्रीमदभय-सागर-गरिण-प्रेरणया अहमदाबादस्थ-वर्धमान-केन्द्र-साहाय्येन शोध-कार्य प्रचलति । अत्र निबन्धे सूर्य-प्रज्ञप्ति-विश्लेषणे सूर्य-द्वय-सिद्धान्तस्य व्यवस्था दर्श्यते ।
अत्र विश्लेषणे सूर्य-प्रज्ञप्त्याः मूल-पाठ एव प्रामाणिकत्वेन स्वीकृतः मया । अन्यानि व्याख्यानानि टीकाः वा कदाचन भ्रान्तीः न जनयेयुः अतः मूल-पाठ एव प्रामाणिक इति स्वीकृतम् ।
एतत्तु स्पष्टमेव यत् सूर्य-प्रज्ञप्त्याः प्राभृतस्य प्रथमे प्राभृत- प्राभृते एकेनैव सूर्येण निर्वाहः उत्तरायण-दक्षिणायन-गति-विवेचनायां दृश्यते इति । द्वितीयस्मिन् प्राभृत-प्राभृते अपि अर्ध-मण्डल-संस्थितिविवेचनायां स्पष्ट-रूपेण सूर्यद्वयस्य उल्लेखो न विद्यते। परं तृतीयस्मिन् प्राभृत-प्राभृते सूर्यद्वयस्य उल्लेखः । तत्र चीर्ण-क्षेत्र-विचारणा उपस्थापिता। चतुर्थे तयोः द्वयोः सूर्ययोः अन्तरस्य विषये विचारः । पञ्चमे प्राभृत-प्राभृते द्वीपादिषु गतयः विविक्ताः । तत्र उपस्थापिता विवेचना सूर्य-द्वय-निरपेक्षव । तदनन्तरं चापि षष्ठाद्यष्टमान्त-प्राभृत-प्राभृतेषु (प्रथम-प्राभृतान्तं यावत् ) विकम्प-गत्यादि-विचारणासु एकेनैव सूर्येण निर्वाहः मूल-पाठे दृश्यते इति । द्वितीयस्मिन् प्राभृते च केवलं प्रथमे एव प्राभृतप्राभृते सूर्यद्वयसिद्धान्तस्य उपयोगः न तु द्वितीय-तृतीययोः प्राभृत-प्राभृतयोः । एवं चे द्वयोः सूर्ययोः उपयोगः सर्वत्र न दृश्यते इत्यवधेयम् ।। .. किमिति वस्तुतः द्वौ सूर्यो विद्यते ? उत अन्यदभिप्रेयते सूर्यद्वय-सिद्धान्तानुस्यूतैः स्थलैः ? इत्यत्र विवेक्ष्यते । विवेचनारम्भात् पूर्वमेतत् प्रतिजानीमहे यत् नैषा धारणा खलु अव्यावहारिको अपि तु भृशं महत्त्व-पूर्णा, वेदाङ्गज्यौतिषात् सिद्धान्तज्यौतिषावधि च ज्योतिः-शास्त्रीय-सिद्धान्तानाम् उद्भवं दर्शयति इति । न केवलं जैनानाम् आगमोपाङ्ग एतस्मिन् एतादृक्षी धारणा । अपि तु पुराणेष्वप्यस्ति द्वादशादित्य-विषयिणी धारणा, तथा च द्वादशादित्यादि-धारणानां व्यवस्थाः वर्तन्ते एव । तत् कथं स्यात् सूर्यद्वयसिद्धान्तस्य व्यवस्था । एतदर्थं सूर्यप्रज्ञप्त्याः मूल-पाठस्य आमूलचूलं विश्लेषणम् आवश्यकम् । अत्र प्रारम्भिक-विश्लेषणे कतिपये नवीनाः परिणामाः लब्धाः, ते चात्र विवेच्यन्ते ।
सर्व-प्रथमम् अर्ध-मण्डल-विषयिणी विचारणा निकष्या इति तदर्थमेव प्रयस्यते । प्रथम-प्राभृतस्य द्वितीयस्मिन् प्राभृत-प्राभृते अर्धमण्डल-संस्थितिविचारिता । वस्तुतः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org