________________
२४४
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૩-ક્રિયાયોગશુદ્ધિ અધિકાર १५४ स्थैर्याधानार्य सिद्धस्यासिद्धस्यानयनाय च । भावस्यैव क्रिया शान्तचित्तानामुपयुज्यते ।।१२।।
२१०
१५५ क्रियाविरहितं हन्त, ज्ञानमात्रमनर्थकम् । गति विना पथज्ञोऽपि, नाप्नोति पुरमीप्सितम्' ।।१३।। . १५६ स्वानुकूलां क्रियां काले, ज्ञानपूर्णोऽप्यपेक्षते । प्रदीपः स्वप्रकाशोऽपितैलपूर्त्यादिकं यथा ।।१४।।
१५७ बाह्यभावं पुरस्कृत्य, ये क्रियाऽव्यवहारतः । वदने कवलक्षेपं विना ते तृप्तिकाङ्क्षिणः ।।१५।।
१५८ गुणवद्बहुमानादेर्नित्यस्मृत्यां च सत्क्रिया । जातं न पातयेद्भावमजातं जनयेदपि ।।१६।। १५९ क्षायोपशमिके' भावे, या क्रिया क्रियते तयाँ । पतितस्यापि तद्भावप्रवृद्धिर्जायते' पुनः ।।१७।। १६० गुणवृद्ध्यै ततः कुर्यात्, क्रियामस्खलनायं वा । एकं तु संयमस्थानं, जिनानामवतिष्ठते ।।१८।।
१६१ अज्ञाननाशकत्वेन ननु ज्ञानं विशिष्यते । न हि रज्जावहिभ्रान्तिर्गमनेन निवर्तते ।।१९।।
१६२ सत्यं क्रियागमप्रोक्ता, ज्ञानिनोऽप्युपयुज्यते । सञ्चितादृष्टनाशार्थ, मासूरोऽपि यदभ्यधात् ।।२०।।
१६३ तण्डुलस्य यथा वर्म, यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र, पुरुषस्य तथाँ मलम् ।।२१ ।। १६४ जीवस्य तण्डुलस्येव, मलं सहजमप्यलम् । नश्यत्येव न सन्देहस्तस्मादुद्यमवान् भवे ।।२२ ।।
१६५ अविद्या च दिदृक्षा, च, भवबीजं च वासना । सहजं च मलं चेति, पर्यायाः कर्मणः स्मृताः ।।२३।।
१६६ ज्ञानिनो नास्त्यदृष्टं चेद्, भस्मसात्कृतकर्मणः । शरीरपातः किं न, स्याज्जीवनादृष्टनाशतः ।।२४ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org