________________
૨૩૪
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ર-જ્ઞાનયોગશુદ્ધિ અધિકાર १०४ आवापोद्वापविश्रान्तियत्राशुद्धनयस्य तत् । शुद्धानुभवसंवेद्यं, स्वरूपं परमात्मनः ।।२७।।
१०५ गुणस्थानानि यावन्ति', यावन्त्यष्टापि मार्गणाः । तदन्यतरसंश्लेषो , नैवातः परमात्मनः ।।२८ ।। १०६ कर्मोपाधिकृतान् भावान्, य आत्मन्यध्यवस्यति । तेन स्वाभाविक रूपं न" बुद्धं परमात्मनः ।।२९।।
७
१०७ यथा भृत्यैः कृतं युद्धं, स्वामिन्येवोपचर्यते । शुद्धात्मन्यविवेकेन, कर्मस्कन्धोर्जितं तथा ।।३०।।
१०८ मुषितत्वं यथा पान्थगतं पथ्युपचर्यते । तथा व्यवहरत्यज्ञष्टिाद्वपे कर्मविक्रियाम् ।।३१ ।।
१०९ स्वत एव समायान्ति, कर्माण्यारब्धशक्तितः' । एकक्षेत्रावगाहेन ज्ञानी तत्र न दोषभाक् ।।३२ ।।
११० दारुयन्त्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयः । योगीनो नैव बाधायै , ज्ञानिनो लोकवर्तिनः ।।३३ ।।
१११ प्रारब्धादृष्टजनिता, सामायिकविवेकतः । क्रियापि ज्ञानिनो व्यक्तामौचिती नातिवर्तते ।।३४ ।।
११२ संसारे निवसन् स्वार्थसज्जः कज्जलवेश्मनि । लिप्यते निखिलो लोको , ज्ञानसिद्धो न लिप्यते ।।३५ ।।
११३ नाहं पुद्गलभावानां कर्ता कारयिता च न । नानुमन्तापि चेत्यात्मज्ञानवान् लिप्यते कथम् ।।३६ ।।
१३
१११०१३
११४ लिप्यते पुद्गलस्कन्धो, न लिप्ये
रहम । चित्रव्योमाञ्जनेनेव' ध्यायन्निति न लिप्यते ।।३७।।
११५ लिप्तताज्ञानसम्पातप्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते ।।३८ ।।
११६ तपःश्रुतादिना मत्तः, क्रियावानपि लिप्यते । भावनाज्ञानसम्पन्नो, निष्क्रियोऽपि न लिप्यते ।।३९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org