SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ૨૨૮ અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૧-શાસ્ત્રયોગશુદ્ધિ અધિકાર ६४ दूषयेदज्ञ एवोच्चैः, स्याद्वादं न तु पण्डितः । अज्ञप्रलापे सुज्ञानां, न द्वेषः करुणैव तु ।।६४ ।। ६५ त्रिविधं ज्ञानमाख्यातं , श्रुतं चिन्ता च भावना । आद्यं कोष्ठगबीजाभं , वाक्यार्थविषयं मतम्” ।।६५ ।। ६६ महावाक्यार्थजं यत्तु सूक्ष्मयुक्तिशतान्वितम् । तद्वितीयं जले, तैल - बिन्दुरीत्या प्रसृत्वरम् ।।६६ ।। ६७ ऐदम्पर्यगतं यच्च', विध्यादौ यत्नवच्च यत् । तृतीयं तदशुद्धोच्चजात्यरत्नविभानिभम् ।।६७ ।। ६८ आये ज्ञाने मनाक् पुंसस्तद्रागाद्दर्शनग्रहः । द्वितीये न भवत्येष” चिन्तायोगात्कदाचन ।।६८ ।। ६९ चारिसञ्जीविनीचारकारकज्ञाततोऽन्तिमे' । सर्वत्रैव हिता वृत्तिर्गाम्भीर्यात्तत्त्वदर्शिनः ।।६९ ।। ७० तेन' स्याद्वादमालम्ब्य' सर्वदर्शनतुल्यताम् । मोक्षोद्देशाविशेषेण, यः पश्यति स शास्त्रवित् ।।७० ।। ७१ माध्यस्थ्यमेव शास्त्रार्थो येन तच्चारु सिध्यति । स एव धर्मवादः स्यादन्यद् बालिशवल्गनम् ।।७१ ।। ७२ पुत्रदारादि संसारो, धनिनां मूढचेतसाम्' । पण्डितानां तु संसारः, शास्त्रमध्यात्मवर्जितम् ।।७२ ।। ७३ माध्यस्थ्यसहितं ह्येकपदज्ञानमपि प्रमा' । शास्त्रकोटिवृथैवान्या तथा चोक्तं महात्मना ।।७३ ।। ७४ वादांटा प्रतिवादांटा, वदन्तो निष्टिातांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ ।।७४ ।। ७५ इति यतिवदनात्पदानि बुद्ध्वा, प्रशमविवेचनसंवराभिधानि । प्रदलितदुरितः क्षणाञ्चिलातितनय, इह” त्रिदशालयं जगाम ।।५।। ७६ नचानेकान्तार्थावगमरहितस्यास्य' फलितम्, कथं माध्यस्थ्येन स्फुटमिति विधेयं भ्रमपदम् । समाधेरैव्यक्त्तादभिदधति व्यक्तसदृशें, फल योगाचार्या, ध्रुवमभिनिवेशै विगलिते ।।७६ ।। ७७ विशेषादोघाद्वा सपदि तदनेकान्तसमये समुन्मीलद्भक्तिर्भवति य इहाध्यात्मविशदः । भृशं धीरोदात्तप्रियतमगुणोज्जागररूचिर्यशश्रीस्तस्याङ्क” त्यजतिन कदापि प्रणयिनी ।।७७।। ।। इति प्रथमोऽधिकारः ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005561
Book TitleAdhyatma Upnishad Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorKirtiyashsuri
PublisherRaj Saubhag Satsang Mandal Sayla
Publication Year2012
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy