________________
૨૨૬
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૧-શાસ્ત્રયોગશુદ્ધિ અધિકાર ५२ विमतिः सम्मतिर्वापि, चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ।।५२ ।।
५३ तेनानेकान्तसूत्रं यद्, यद्वा सूत्रं नयात्मकम् । तदेव तापशुद्धं स्याद् न” तु” दुर्नयसंज्ञितम्" ।।५३ ।।
५४ नित्यैकान्ते न हिंसादि, तत्पर्यायापरिक्षयात् । मनःसंयोगनाशादौ , व्यापारानुपलम्भतः ।।५४ ।।
५५ बुद्धिलेपोऽपि को नित्यनिर्लेपात्मव्यवस्थितौ । सामानाधिकरण्येन', बन्धमोक्षौ हि सङ्गतौ ।।५।।
५६ अनित्यैकान्तपक्षेऽपि, हिंसादिकमसङ्गतम्' । स्वतो विनाशशीलानां , क्षणानां नाशकोऽस्तु कः ? ।।५६ ।।
५७ आनन्तर्य क्षणानां तु', न हिंसादिनियामकम् । विशेषादर्शनात्तस्य , बुद्धलुब्धकयोमिथः ।।५७ ।।
५८ सङ्क्लेशेन विशेषष्टोदानन्तर्यमपार्थकम् । न हि तेनापि संक्लिष्टमध्ये भेदोविधीयते” ।।५८ ।। ५९ मनोवाक्काययोगानां" भेदादेवं क्रियाभिदा । समग्रैव विशीर्यंतेत्येतदन्यत्र चर्चितम् ।।५९ ।।
६० नित्यानित्याद्यनेकान्तशास्त्रं तस्माद्विशिष्यते । तद्दष्ट्यैव हि माध्यस्थ्यं गरिष्ठमुपपद्यते ।।६० ।।
६१ यस्य सर्वेषु समता, नयेषु तनयेष्विव । तस्यानेकान्तवादस्य, क्व न्यूनाधिकशेमुषी ।।६१ ।।
६२ स्वतन्त्रास्तु नयास्तस्य, नांशाः किन्तु प्रकल्पिताः । रागद्वेषौ कथं तेषाम्, दूषणेऽपि च भूषणे ।।६२ ।।
६३ अर्थे महेन्द्रजालस्य, दूषितेऽपि च भूषिते । यथा जनानां माध्यस्थ्यं, दुर्नयार्थे तथा मुने': ।।६३ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org