________________
કૌટિલ્ય ‘અર્થશાસ્ત્ર’ : દાર્શનિક-સાંસ્કૃતિક પરીક્ષણ
२०. यः समुदयं द्विगुणमुद्भावयति स जनपदं भक्षयति । स चेद्राजार्थमुपनयति, अल्पापराधे वारयितव्यः । महति यथापराधं दण्डयितव्यः । अर्थ. २.९.१५-१६
૩૫૦
२१. अकृतानि कर्तृभ्यो नादेयात् । अकृषतामाच्छिद्यान्येभ्यः प्रयच्छेत् । ग्रामभृतकवैदेहका वा कृषेयुः । अर्थ. २.१.९-११
२२. पक्वं पक्वमिवारामात् फलं राज्यादवाप्नुयात् । आत्मच्छेदभयादामं वर्जयेत्कोपकारकम् ॥ अर्थ. ५.२.७०
२३. प्रचारचरित्रसंस्थानान्यनुपलभमानो हि प्रकृतः समुदयमज्ञानेन परिहापयति, उत्थानक्लेशासहत्वादालस्येन, शब्दादिष्विन्द्रियार्थेषु प्रमादेन, सङ्क्रोशाधर्मानर्थभीरुर्भयेन, कार्यार्थिष्वनुग्रहबुद्धिः कामेन, हिंसाबुद्धिः कोपेन, विद्याद्रव्यवल्लभापाश्रयाद्दर्पेण, तुलामानतर्कगणितान्तरोपधानाल्लोभेन । तेषामानुपूर्व्या यावानर्थोपघातः तावानेकोत्तरो दण्डः इति मानवाः । - अर्थ. २.७.१०
२४. अनुग्रहपरिहारौ चैभ्यः कोशवृद्धिकरौ दद्यात्, कोशोपघातिकौ वारयेत् । २५. युक्तः प्रजानामनुरञ्जने 'स्यास्तस्माद्यशो यत्परमं धनं वः ॥
२६. न चान्योन्यं संस्थास्ते वा विद्युः । अर्थ. १.१२.१२
२८. धर्मश्च व्यवहारश्च चरित्रं राजशासनम् ।
-
[अर्थात् स्थान पर रहेनारा गुप्तयरो (संस्था) ने इरता गुप्तयरो खेजीभने पान ઓળખતા હોય.]
विवादार्थश्चतुष्पादः पश्चिमः पूर्वबाधकः ॥ अर्थ. ३.१.३९
अर्थ. १.१२.१५,१६
२७. त्रयाणामेकवाक्ये सम्प्रत्ययः । तेषामभीक्ष्णविनिपाते तूष्णींदण्डः प्रतिषेधो वा । - २८. तस्माल्लोकयात्रार्थी नित्यमुद्यतदण्डः स्यात् । न ह्येवंविधं वशोपनयनमस्ति भूतानां यथा दण्ड इत्याचार्याः । नेति कौटिल्यः । तीक्ष्णदण्डो हि भूतानामुद्वेजनीयः । मृदुदण्डः परिभूयते । यथार्हदण्डः पूज्यः । सुविज्ञातप्रणीतो हि दण्डः प्रजाः धर्मार्थकामैर्योजयति । दुष्प्रणीतः कामक्रोधाभ्यामवज्ञानाद्वा वानप्रस्थपरिव्राजकानपि कोपयति, किमङ्ग पुनर्गृहस्थान् ? अर्थ. १.४.५-१२
-
30. संस्था या धर्मशास्त्रेण शास्त्रं वा व्यावहारिकम् । यस्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिश्चयेत् ॥ ३१. शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् । न्यायस्तत्र प्रमाणं स्यात्तत्र पाठो हि नश्यति ॥ ३२. आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा । स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥ भर्तुर्भाग्यं तु भार्यैका प्राप्नोति भरतर्षभ । अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥
Jain Education International
-
-
अर्थ. ३.१.४४
-
अर्थ.२.१.१५
उत्तररामचरितम् १.११ B
-
अर्थ. ३.१.४५
For Personal & Private Use Only
रामायणम्, अयोध्याकाण्डम् २४.२,३
www.jainelibrary.org