________________
.
0
न्यायावतार - श्लो० २९
२६१० योरसंनिहितत्वात्, ततश्च ३४२तत् ३४३तत्कालसंबद्धमेव वस्तुनो रूपं साक्षात्कर्तुं क्षमते न पूर्वमपरं वा, असंनिधानादेव । यदि पुनर्विनष्टमपि पूर्वक्षणवर्तिरूपमाकलयेत्, तदा विनष्टत्वाविशेषान्निरवधिः क्षणपरंपरा तन्न प्रतीयेत, तथा च सति संकलिकया अनादिजन्मपरंपराग्राहि
-न्यायश्भिઅતીત-અનાગત પદાર્થો છે, તે સમયે પરિચ્છેદક એવું પ્રમાણ નથી. તેથી એમ નિશ્ચિત થાય છે કે પ્રત્યક્ષ વર્તમાન ક્ષણવર્તી પદાર્થોને પ્રકાશ કરે છે. જો નાશ પામેલી પૂર્વવર્તી ક્ષણને પણ આ વર્તમાન કાલીન પ્રત્યક્ષ જણાવતો હોય, તો પછી નાશ પામવાપણું તો એની પૂર્વની ક્ષણોમાં પણ સમાન રૂપે રહેલ હોવાના કારણે, કોઈપણ મર્યાદા વગર ભૂતકાલીન સર્વ ક્ષણો તે ઠેકાણે પ્રતીત થવી જોઈએ, તો પછી સાંકળની જેમ અનાદિકાલીન જન્મોની પરંપરાને ગ્રહણ કરનારૂં પ્રત્યક્ષ થઈ જશે. આ જ પ્રમાણે જો અનાગતકાલીન પદાર્થને આ વાર્તમાનિક પ્રત્યક્ષ જોતો હોય, તો અનાગતપણું તો તેની આગળના પદાર્થોમાં પણ સમાન પણે રહેલ હોવાથી, તે આગળની પણ અનંત પરંપરાને જાણી લેશે, પરંતુ આ પ્રકારે પૂર્વોત્તરકાળવર્તી અનાદિ-અનંતકાલીન પરંપરાને જણાવનાર પ્રત્યક્ષ છે એવું તો
-अर्थसंप्रेक्षण(३४२) तदिति प्रत्यक्षम् । (३४३) तत्कालसंबद्धं वर्तमानकालसंगतम् । वर्तमानकालपरिगतवस्तुग्राहित्वं चाध्यक्षस्य वैभाषिकाभिप्रायेण, क्षणक्षयाद्यवस्थितत्वलक्षणत्वाद्वस्तुनः, अन्यथा चक्षुरिन्द्रियसंनिकृष्टादादुत्पद्यमानस्य द्वितीयक्षणभाविनो ज्ञानस्य न प्राक्क्षणवर्तिरूपग्राहकत्वेन वर्तमानवस्तुग्राहकत्वं स्यात् । सौत्रान्तिकाभिप्रायेण वस्तुजन्यज्ञानगतग्राह्याकारलक्षणमेव वस्तुनो रूपं साक्षात्कर्तुं क्षमते इति व्याख्या । 'वस्त्वाहितमात्मगतमाकारं प्रत्यक्षं परिच्छिनत्ति' - इति हि सौत्रान्तिकानां सिद्धान्तः । यदाहुस्तद्वादिनः
अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते प्रत्यक्षो न हि बाह्यवस्तुविसरः सौत्रान्तिकैराश्रितः । योगाचारमतानुगैरभिहिता साकारबुद्धिः परा मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परं संविदम् ।। इति ।।
तत्र सौत्रान्तिकयोगाचारशब्दौ पूर्वमेव दत्तार्थौ । वैभाषिकमध्यमशब्दौ त्वेवं सौत्रान्तिकाद्यपेक्षया विरुद्धं भाषणं चतुःक्षणिकं वस्त्वादि विभाषा, गुरोश्च निष्ठायां सेट् इति अप्रत्ययः, स प्रयोजनं प्रवर्तकं वैभाषिकध्वनिनिमित्तं यस्य स वैभाषिकः । प्रयोजनम् (पा. ५-१-१०९) - इति ठञ् । प्रभाचन्द्रस्तु न्यायकुमुदचन्द्रे - 'विभाषा सद्धर्मप्रतिपादको ग्रन्थविशेषस्तां विदन्ति अधीयते वा वैभाषिकाः' इत्युवाच । तथा मध्ये भवो मध्यमः मध्यान्ममण् वा इति विश्रान्तसूत्रेण मप्रत्ययः । पूर्वोत्तरक्षणासंस्पर्शी निराकारो ज्ञानक्षणस्तत्समर्थनप्रवणा वादिनोऽपि मध्यमाः | माध्यमिकध्वनिस्तु इत्थम्-मध्यमेन क्षणेन चरन्ति चरत्यर्थे इकण् । यद्वा मध्यम आद्यपुरुषविशेषस्तस्य दर्शनं मध्यमम् तत्प्रयोजनं येषाम्, पूर्ववत् ठञ्, अस्त्यर्थे वा ठञ् । द्वाद्यस्वरवोतोऽस्य प्राय (?) इति पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org