________________
Q/१७६
न्यायावतार 10
___137प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽक्षलिङ्गतः । लोकस्ववचनाभ्यां च बाधितोऽनेकधा मतः ।। २१ ।।
-न्यायरश्मिજ્યારે તેને સ્થાણુ વગેરેથી ભિન્નરૂપે આપણે જાણતા હોઈએ. તે જ પ્રમાણે પક્ષ, હેતુ, દૃષ્ટાંત વગેરેનું યથાવસ્થિત સ્વરૂપ ત્યારે જ જાણી શકાય, જ્યારે પક્ષ, હેતુ, દષ્ટાંતના લક્ષણોથી રહિત એવા પક્ષાભાસ, હેત્વાભાસ, દૃષ્ટાંતાભાસનું આપણને જ્ઞાન હોય. તેથી પહેલા પક્ષના લક્ષણથી રહિત એવા પક્ષાભાસનું સ્વરૂપ જણાવે છે.
શ્લોકાર્ય - પ્રતિવાદીને જે વસ્તુ સિદ્ધ હોય તે કહેવું છે અને જે પ્રત્યક્ષ, અનુમાન, લોક તથા સ્વવચનથી બાધિત હોય તે પક્ષાભાસ કહેવાય. આ પ્રમાણે પક્ષાભાસ અનેક પ્રકારે કહેવાયેલ છે (२१)
વિવેચનઃ- પક્ષના યથાવસ્થિત સ્વરૂપને જણાવવા માટે, પક્ષાભાસના લક્ષણને જણાવે છે. પક્ષનું સામાન્યથી લક્ષણ આ પ્રમાણે જણાવેલ કે, જે અપ્રતીત, અનિરાકૃત તથા અભિપ્સિત હોય તે પક્ષ,
-शास्त्रसंलोक(137) "तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः। प्रतीतसाध्यधर्मविशेषणो
यथा आर्हतान्प्रति अवधारणवर्जः परेण प्रयुज्यमानः समस्ति जीव इत्यादि।, निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकस्ववचनादिभिः साध्यधर्मस्य निराकृतत्वादनेकप्रकारः। प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण आत्मेति।, अनुमाननिराकृतसाध्यधर्म विशेषणो यथा नास्ति सर्वज्ञो वीतरागो वा। आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन रजनिभोजनं भजनीयम् । लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः। स्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणं।" - प्रमाणनय. ६/३८,३९,४०,४२,४३,४४,४५/ "प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः" - प्रमाणमी. १/२/१४। "अनिराकृत इति एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतस्ववचनैर्निराक्रियते, न स पक्ष इति प्रदर्शनार्थम्, तत्र प्रत्यक्षनिराकृतो यथा - अश्रावणः शब्द इति, अनुमाननिराकृतो यथा - नित्यः शब्द इति, प्रतीतिनिराकृतो यथा - अचन्द्रः शशीति, स्ववचननिराकृतो यथा - नानुमानं प्रमाणम्।" - न्यायबि. - ३/४८,४९,५०,५१,५२। “यत्पुनरनुमानं प्रत्यक्षागमविरूद्धं न्यायाभासः स इति" - न्यायभा. १/१/१/ "अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगतस्ववचनविरोधिनो निरस्ता भवन्ति। यथाऽनुष्णोऽग्निरिति प्रत्यक्षविरोधी, घनमम्बरमिति अनुमानविरोधी, ब्राह्मणेन सुरा पेयेत्यागमविरोधी, वैशेषिकस्य सत्कार्यमिति ब्रुवतः स्वशास्त्रविरोधी, न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी" - प्रशस्त पृ. २३४। “साधयितुमिष्टोऽपि प्रत्यक्षादिविरूद्धः पक्षाभासः। तद्यथा - प्रत्यक्षविरूद्धः, अनुमानविरूद्धः, आगमविरूद्धः, लोकविरुद्धः, स्ववचनविरूद्धः, अप्रसिद्धविशेषणः, अप्रसिद्धविशेष्यः, अप्रसिद्धोभयः, प्रसिद्धसम्बन्धश्चेति", - न्यायप्र.पृ. २। "तत्रानिष्टादि पक्षाभासः, बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः।" - परीक्षामु. ५/१२,१५,१६,१७,१८,१९,२० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org