________________
किञ्चिद्वक्तव्यम् |
अयि विद्वांसः ! विदाकुर्वन्तु भवन्तः ! इह जगति भवनिस्तारकं जयति जैनं शासनम् । अस्मिन् शासने वीतरागाः देवाः, पञ्चमहाव्रतधारकाः जिनाज्ञापालकाः सद्गुरवः, सर्वज्ञप्रणीतश्च धर्मो जयतितराम् । अस्य जिनशासनस्य येन केनाऽप्याराधनं कृतः स तीर्ण एव भवाम्भोधेः, नात्र संशयलेशोऽपि।
द्वावालम्बनौ चास्मिन् शासने प्रकृष्टतां भजेते। एकं जिनबिम्बमन्यच्च जिनागमम् । चैत्येषु जिनबिम्बानि स्थाप्यन्तेऽन्तःकरणमध्ये च जिनागमम् । यथा चक्षुर्विकलः सर्वत्र स्खलनां प्राप्नोति तथा प्रज्ञाविकलो जिनागममध्ये सहस्रशो विनिपातं लभते । उक्तं च - "यस्य नास्ति स्वयं चक्षुः प्रदीपस्तस्य किं करिष्यति, यस्य नास्ति स्वयं प्रज्ञा शास्त्रं किं तस्य करिष्यति ?" प्रज्ञायाः तीक्ष्णतापादने च दर्शनशास्त्रस्यैकाधिकारः सर्वविदित एव ।। ___ न्याय-वैशेषिक-मीमांसा-वेदान्त-चार्वाक-बौद्ध-सांख्यादिदर्शनशास्त्राणामध्ययनानन्तरं न तथा तृषा शाम्यति यथा स्याद्वादामृतनिस्यन्दसिन्धूपमजैनदर्शनाध्ययनेन प्रशाम्यति । यतः जैनदर्शनस्य तर्काः अमोघाः बुद्धिगम्याः कर्कशताकलङ्करहितविमलचन्द्रोपमाः। जैनदर्शनस्य च स्याद्वादः नयवादः प्रमाणवादश्चाकुतोभयान्वितः प्रबुद्धजनमनश्चमत्कारकारी च ।। ___ जैनदर्शनशास्त्रनिर्मातृषु च सूरिसिद्धसेनदिवाकरा अज्ञानतमोभिदिवाकरायमाना एव वस्तुतः सन्ति। तेषामयम् न्यायावतारग्रन्थः सर्वजनविस्मयप्रदः। अस्य च श्रीसिद्धर्षिगणिकृतविवृत्तिरपि मनोहरा एव ।।
अत्र केचिद् वदन्ति-बालानां सुखबोधायैष एतादृशाश्च ग्रन्था भवन्ति । तदयुक्तम् यतो 'बाल' इत्यस्य का व्याख्या क्रियते ? यदि तर्कसंग्रहन्यायबोधिनीकारोक्ता व्याख्या-"अधीतव्याकरण-काव्य-कोषः अनधीतन्यायशास्त्रः" आद्रीयते, सा व्याख्या न जैनदर्शनसम्मता, यतोऽनधिगतसम्यक्त्वोऽचरमावर्त्तनिषण्णः प्रकाण्डपंडितोऽपि बाल एव, यतः पूज्यहरिभद्राचार्यैरचरमावर्तकालो बाल्यकाल एवोक्तः । चरमावर्त्तकालस्तु यौवनकालत्वेन प्रोक्तः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org