SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ૧૦૬ नवतत्व प्रर/गाथा-30-39 (७) मावभावना : आस्रवान् इहामुत्रापाययुक्तान् महानदीस्रोतोवेगतीक्ष्णान् अकुशलागमकुशलनिर्गमद्वारभूतान् इन्द्रियादीन् अवद्यतश्चिन्तयेत् । तद्यथा-स्पर्शनेन्द्रियप्रसक्तचित्तः सिद्धोऽनेकविद्याबलसम्पन्नोऽप्याकाशगोऽष्टाङ्गमहानिमित्तपारगो गार्ग्यः सत्यकिनिधनमाजगाम । तथा प्रभूतयवसोदकप्रमाथावगाहादिगुणसम्पन्नवनविचारिणश्च मदोत्कटा बलवन्तो हस्तिनो हस्तिबन्धकीषु स्पर्शनेन्द्रियसक्तचित्ता ग्रहणमुपगच्छन्ति, ततो बन्ध वध-दमन-(वाहन)निहननाऽङ्कुशपाणिप्रतोदाभिघातादिजनितानि तीव्राणि दुःखान्यनुभवन्ति, नित्यमेव स्वच्छन्दप्रचारसुखस्य वनवासस्यानुस्मरन्ति, तथा मैथुनसुखप्रसङ्गादाहितगर्भाऽश्वतरी प्रसवकाले प्रसवितुमशक्नुवती तीव्रदुःखाभिहता अवशा मरणमभ्युपैति । एवं सर्व एव स्पर्शनेन्द्रियप्रसक्ता इहामुत्र च विनिपातमृच्छन्तीति ।। तथा जिह्वेन्द्रियप्रसक्ता मृतहस्तिशरीरस्थस्रोतोवेगोढवायसवत् हेमन्तधृतकुम्भप्रविष्टमूषिकवत् गोष्ठप्रसक्तहृदवासिकूर्मवत् मांसपेशीलुब्धश्येनवत् बडिशागतमांसगृद्धमत्स्यवच्चेति ।। तथा घ्राणेन्द्रियप्रसक्ता औषधिगन्धलुब्धपन्नगवत् पललगन्धानुसारिमूपकवच्चेति ।। तथा चक्षुरिन्द्रियप्रसक्ताः स्त्रीदर्शनप्रसङ्गादर्जुनकचोरवत् दीपालोकनलोलपतङ्गवद् विनिपातमृच्छन्तीति चिन्तयेत् ।। तथा श्रोत्रेन्द्रियप्रसक्तास्तित्तिरिकपोतकपिञ्जलवत् गीतसङ्गीतध्वनिलोलमृगवद् विनिपातमृच्छन्तीति चिन्तयेत् । एवं हि चिन्तयन्नास्रवनिरोधाय घटत इत्यास्रवानुप्रेक्षा ।।७।। (तत्त्वार्थसूत्र अ. ९, सू. ७, भाष्य) જીવને કર્મબંધનું કારણ પાંચ ઇન્દ્રિયો આદિ છે, તેથી ઇન્દ્રિયાદિ આશ્રવો છે અને તે ઇન્દ્રિયો આલોક અને પરલોકમાં અનર્થો કરે તેવા આશ્રવને લાવનાર છે. વળી, જેમ મહાનદીઓના પ્રવાહનો વેગ રોકવો દુષ્કર હોય છે, તેમ ઇન્દ્રિયોનો આવેગ રોકવો અતિદુષ્કર હોય છે. વળી ઇન્દ્રિયો અકુશલ પ્રવૃત્તિઓના આગમન અને કુશલ પ્રવૃત્તિઓના નિર્ગમનના દ્વારભૂત છે, તેથી જીવને માટે અનર્થકારી છે, તે પ્રમાણે ચિંતવન કરવું જોઈએ. ઇન્દ્રિયો કઈ રીતે અનર્થકારી છે, તે બતાવતાં કહે છે – Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005541
Book TitleNavtattva Prakaran
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year
Total Pages182
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy