SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०४ नवतत्व प्र२ | गाथा-30-39 प्राप्य श्लेष्मणा द्रवीकृतः अत्यन्ताशुचिर्भवतीति । ततः पित्ताशयं प्राप्य पच्यमानः खलीभूतोऽशुचिरेव भवति । पक्को वाय्वाशयं प्राप्य वायुना विभिद्यते पृथक् खलः पृथग् रसः, खलात् मूत्रपुरीषादयो मलाः प्रादुर्भवन्ति, रसाच्छोणितं परिणमति, शोणितान्मांसं, मांसान्मेदः, मेदसोऽस्थीनि, अस्थिभ्यो मज्जानः, मज्जभ्यां शुक्रमिति, सर्व चैतत् श्लेष्मादिशुक्रान्तमशुचि भवति, तस्मादाद्युत्तरकारणाशुचित्वाद्शुचि शरीरमिति । किञ्चान्यत्-अशुचिभाजनत्वात्, अशुचीनां खल्वपि भाजनं, शरीरं कर्ण-नासाऽक्षिदन्त-मल-स्वेद-श्लेष्म-पित्त-मूत्र पुरीषादीनामवस्करभूतं तस्मादशुचीति । किञ्चान्यत्अशुच्युद्भवत्वात् एषामेव कर्णमलादीनामुद्भवः शरीरं तत उद्भवन्तीति । अशुचौ च गर्भे सम्भवतीत्यशुचि शरीरम् । किञ्चान्यत्-अशुभपरिणामपाकानुबन्धादातवे बिन्दोराधानात् प्रभृति खल्वपि शरीरं कलला-ऽर्बुदपेशी-घनव्यूह-सम्पूर्णगर्भ-कौमारयौवन-स्थविर-भावजनकेनाशुभपरिणामपाकेनानुबद्धं दुर्गन्धि पूतिस्वभावं दुरन्तं तस्मादशुचि । किञ्चान्यत्-अशक्यप्रतीकारत्वात् । अशक्यप्रतीकारं खल्वपि शरीरस्याशुचित्वम्, उद्वर्तन-रूक्षण-स्नाना-ऽनुलेपन-धूप-प्रघर्ष-वासयुक्ति-माल्यादिभिरप्यस्य न शक्यमशुचित्वमपनेतुम् । अशुच्यात्मकत्वात् शुच्युपघातकत्वाच्चेति । तस्मादशुचि शरीरमिति । एवं ह्यस्य चिन्तयतः शरीरे निर्वेदो भवतीति । निर्विण्णश्च शरीर(रे जन्म)प्रहाणाय घटत इत्यशुचित्वानुप्रेक्षा ।।६।। (तत्त्वार्थसूत्र अ. ९, सू. ७, भाष्य) આ શરીર અશુચિમય છે, એ પ્રમાણે ચિંતવન કરે. કેમ આ શરીર અશુચિમય छ ? तेमा उतु ४ छ - (૧) પ્રથમનું કારણ અને ઉત્તરનું કારણ અશુચિ છે - શરીર શુક્ર અને લોહીથી ઉત્પન્ન થાય છે અને તે બન્ને અત્યંત અશુચિમય છે. તેથી શરીરનું આદ્ય કારણ અશુચિ છે. વળી, શરીર દ્વારા ગ્રહણ કરાયેલા સર્વ આહાર શ્લેખ આશયને પ્રાપ્ત કરીને શ્લેખથી દ્રવિત કરાયેલો આહાર અત્યંત અશુચિય Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005541
Book TitleNavtattva Prakaran
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year
Total Pages182
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy