________________
૫૧૨
सिद्धान्तलेशसम्प्रहः ___ अथवा मूलाज्ञानस्यैव जडं न विषयः । अवस्थाऽज्ञानानां स्ववच्छिन्नचैतन्याश्रितानां तत्तज्जडमेव विषयः । अन्यथा चाक्षुषवृत्त्या चन्दनखण्डचैतन्याभिव्यक्ती तत्संसर्गिणो गन्धस्याप्यापरोक्ष्यापरोः । तदनभिव्यक्ती चन्दनतद्रूपयोरप्यप्रकाशापः।
न च चाक्षुषवृत्त्या चन्दनत पावच्छिन्नचैतन्ययोरभिव्यक्त्या तयोः प्रकाशः, गन्धाकारवृत्त्यभावेन गन्धावच्छिन्नचैतन्यस्यानभिव्यक्त्या तस्याप्रकाशश्चेति वाच्यम् । चैतन्यस्य द्विगुणीकृत्य वृत्त्ययोगेन एकद्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथक् पृथग् गगनावच्छेदकत्वस्येव शैतन्यावच्छेदकत्वस्याप्यसम्भवात् । तेषां स्वाश्रयद्रव्यावच्छिन्नशैतन्येनैव शुक्तीदमंशावच्छिन्नचैतन्येन शुक्तिरजतवत् प्रकाशतया तस्याभिव्यक्तौ गन्धस्यापि प्रकाशस्य, अनभिव्यक्तौ रजतादेरप्यप्रकाशस्य चापत्तेः । न च गन्धाकारवृत्त्युपरक्ते एव शैतन्ये गन्धः प्रकाशत इति नियमः, प्रकाशसंसर्गस्यैव प्रकाशमानशब्दार्थत्वेनासत्यामपि तदाकारवृत्ताचनावृतप्रकाशसंसर्गे अप्रकाशमानत्वकल्पनस्य विरुद्धत्वात् । अभिव्यक्तस्य गन्धोपादानचैतन्यस्य गन्धासंसर्गोक्त्यसम्भवात् । ... तस्माद् यथा त्रस्य घटवृत्तौ तं प्रत्यावरकस्यैवाज्ञानस्य निवृत्तिरिति तस्यैव विषयप्रकाशो नान्यस्य, तथा तत्तद्विषयाकारवृत्त्या तत्तदावरकाज्ञानस्यैव निवृत्तेन विषयान्तरस्यापरोक्ष्यम्, 'अनावृतार्थस्यैव संविदभेदाद् आपरोक्ष्यम्' इत्यभ्युपगमादिति । प्रमातृभेदेनेव विषयभेदेनाप्येकत्र चैतन्ये अवस्थाऽज्ञानभेदस्य वक्तव्यतया अवस्थाऽज्ञानानां तत्तज्जडविषयकत्वमिति घटादिवृत्तीनां नावस्थाऽज्ञाननिवर्तकत्वे काचिदनुपपत्तिः । न वा मूलाज्ञाननिवर्तकत्वापतिः ।
અથવા મૂળ અજ્ઞાનને જ જડ વિષય નથી, પણ અવસ્થા અજ્ઞાન જે અવ. છિન શૈતન્યમાં આશ્રિત છે તેમને તે તે તે જડ જ વિષય છે. અન્યથા (અર્થાત્ જડને અનાવૃત માનવામાં આવે તે) ચક્ષુ જન્ય વૃત્તિથી ચંદનખંડી અવચ્છિન્ન તન્યની અભિવ્યક્તિ થતાં તેની સાથે સંલગ ધરાવન ૨ ગન્ધની પણ આ પરે ક્ષતા થવી જોઈએ, કારણ કે તેની (ચંદનાવચ્છિન્ન રમૈતન્ય ૧, અભિવ્યક્તિ ન થાય તે ચંદન અને તેના રૂપને પણ પ્રકાશ ન થવો જોઈએ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org