________________
८७
म
.
પ્રથમ પરિચ્છેદ શક્તિ અને સ્વાન જગતરૂપ વિક્ષેપ કરવાની શક્તિ સાબૂત છે. સ્વપ્નકાળ પર થાય ત્યારે સ્વપ્નપ્રપંચની સાથે ક્ષત્રિયાદિરૂપ સ્વપ્નદ્રષ્ટાને પણ બાધ થાય છે કારણ કે હું બ્રાહ્મણ છું, ક્ષત્રિય નહિ એવો તેને બંધ થાય છે. '
मा १४श्यविवे (विधा२९५ नो अय-):
अवच्छिन्नः चिदाभासस्तृतीयः स्वप्नकल्पितः । विज्ञेयस्त्रिबिधो जीवस्तत्रोद्यः पोरमाथिकः ॥३२।। अवच्छेदः कल्पितः स्यादवच्छेद्यं तु वास्तवम् । तस्मिन् जीवत्वमारोपाद् ब्राह्मणत्वं तु स्वभावतः ॥३३॥ अवच्छिन्नस्य जीवस्य पूर्णेन ब्रह्मणैकताम् ।। तत्त्वमस्यादि वाक्यानि जगु तरजीवयोः ॥३४॥ ब्रह्मण्यवस्थिता माया विक्षेपावृतिरूपिणी । आवृत्याखण्डता तस्मिन् जगज्जीवौ प्रकल्पयेत् ॥३५॥ जीवो धीस्थश्चिदाभासो जगत् स्यात् भूतभौतिकम् ।
अनादिकालमारभ्य मोक्षात्पूर्वमिदं द्वयम् ॥३६॥ . विवरणानुसारिणस्त्वाहुः । विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । ..
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ (विष्णुपुराण ६.७.९४) इति स्मृत्यैकस्यवाज्ञानस्य जीवेश्वरविभागोपाधित्वप्रतिपादनात् बिम्बप्रतिबिम्बभावेन जीवेश्वरयोर्विभागः, नोभयोरपि प्रतिबिम्बभावेन, उपाधिद्वयमन्तरेणोभयोः प्रतिबिम्बत्वायोगात् । तत्रापि प्रतिबिम्बो जीवः। बिम्बस्थानीय ईश्वरः । तथा सत्येव लौकिकबिम्बप्रतिबिम्बदृष्टान्तेन स्वातन्त्र्यमीश्वरस्य तत्पारतन्त्र्यं जीवस्य च युज्यते । प्रतिबिम्बगताः पश्यन् ऋजुवक्रादिविक्रियाः । पुमान् क्रीडेद्यथा ब्रह्म तथा जीवस्थविक्रियाः ॥
इति कल्पतरूक्तरीत्या 'लोकवत्तु लीलाकैवल्यम्' (ब्र.सू. २.१.३३) इति सूत्रमपि सङ्गच्छते। अज्ञानप्रतिबिम्बितस्य जीवस्यान्तःकरणरूपोऽज्ञानपरिणामभेदो विशेषाभिव्यक्तिस्थानं सर्वतः प्रसृतस्य सवितप्रकाशस्य दर्पण इव । अतस्तस्य तदुपाधिकत्वव्यवहारोऽपि, नैतावताऽज्ञानोपाधिपरित्यागः । अन्तःकरणोपाधिपरिच्छिन्नस्यैव चैतन्यस्य जीवत्वे कायव्यूहाधिष्ठानत्वानुपपत्तेः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org