________________
२८
धर्मसङ्ग्रहणी
परिशिष्ट - २ एगो स आलयो जं तत्तोऽभिन्नाण णत्थि नाणत्तं । नाणत्तेवि य पावति तदभेदा आलयबहुत्तं ॥६९७॥ (एकः स आलयो यत्तस्मादभिन्नानां नास्ति नानात्वम् । नानात्वेऽपि च प्राप्नोति तदभेदादालयबहुत्वम् ॥६९७॥)
यत्-यस्मात्स आलय एकस्ततः-तस्मादालयादभिन्नानां शक्तीनां नैव नानात्वमस्ति-नैव नानात्वमुपपद्यते, नानात्वे वा तासां शक्तीनामिष्यमाणे तदभेदात्-शक्त्यभेदादालयस्य बहुत्वं प्राप्नोति, तथा च सत्यभ्युपगमविरोधः ॥६९७।।
पक्षान्तरं दूषयितुमाशङ्कते - अह ता भिन्नाभिन्ना विरोहतो णेस संगतो पक्खो। ण य एगंतावच्चा अवच्चसद्दप्पवित्तीओ ॥६९८॥ (अथ ता भिन्नाभिन्ना विरोधान्नैष संगतः पक्षः । न चैकान्तावाच्या अवाच्यशब्दप्रवृत्तेः ॥६९८॥)
अथ ता:-शक्तय आलयात्सकाशान्न भिन्ना नाप्यभिन्नाः किंतु भिन्नाभिन्नास्ततो न कश्चिद्दोषः इति मन्येथाः । अत्राह-विरोहेत्यादि' । विरोधतो-विरोधदोषप्रसङ्गान्नैष पक्षः संगतः । तथाहि-यदि भिन्ना कथमभिन्नाः अथाभिन्ना कथं भिन्ना इति ? कथंचिद्वादाभ्युपगमेन चाविरोधे स्वदर्शनपरित्यागप्रसङ्गः । अथोच्येत न ताः शक्तयो भिन्ना नाप्यभिन्ना नापि भिन्नाभिन्नाः किं त्वेकान्तेनावाच्यास्तत्कथमुक्तदोषावकाश इति । अत आह-'नयेत्यादि । न च ताः शक्तय एकान्तेनावाच्याः, कुत इत्याह-अवाच्यशब्दप्रवृत्तेः, यदि हि एकान्तेनावाच्याः शक्तयस्ततः कथमवाच्यशब्दस्यापि तत्र प्रवृत्तिर्भवेदिति ? ॥६९८।।
पुनरपि परस्य मतमाशङ्कमान आह - परिगप्पिता तु अह ता विसिट्ठफलकारणं कहन्नु मता ? । तब्भावा फलभावे अतिप्पसंगो स चाणिट्ठो ॥६९९॥ (परिकल्पितास्तु अथ ता विशिष्टफलकारणं कथं नु मताः ? । तद्भावात्फलभावेऽतिप्रसङ्गः स चानिष्टः ॥६९९॥)
अर्थताः शक्तयो न वस्तुसत्यो येन भेदाभेदादयो भवेयुः, किंतु परिकल्पिता एव, ततो न कश्चित्पूर्वोक्तो दोषः । अत्राह - ‘विसिटेत्यादि' । यदि परिकल्पितास्ततः कथं नु विशिष्टफलकारणं-वस्तुसद्विशिष्टपीतादिज्ञानलक्षणफलनिबन्धनं मताः ? परिकल्पितं हि परमार्थतोऽसत्, तत्कथं ता विशिष्टफलनिबन्धनं भवेयुरिति ? यदि पुनरस्तद्भावात्-परिकल्पितभावात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org