SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - २ बाह्यार्थसिद्धि-अधिकार अत्रैवोपचयमाह - किंच इहं नीलातो जायइ पीतादणेगधा णाणं । णय तं अहेतुगं चिय को हेतू तस्स वत्तव्वं? ॥६९४॥ (किञ्चेह नीलाद् जायते पीताद्यनेकधा ज्ञानम् । न च तदहेतुकमेव को हेतुस्तस्य वक्तव्यम् ? ॥६९४॥) किंच इह-जगति नीलात्-नीलाकारात् विज्ञानादनन्तरं जायते पीतादि-पीताकारादि ज्ञानमनेकधा-अनेकप्रकारं, न च तत्-पीतादिकज्ञानमहेतुकं, सदाभावादिप्रसङ्गात्, ततो यदि बाह्योऽर्थस्तथा तथा विचित्राकाराधायकत्वेन नाभ्युपगम्यते तर्हि तस्य पीतादिज्ञानस्य को हेतुरिति वक्तव्यम् ? ॥६९४।। पर आह - आलयगता अणेगा सत्तीओ पागसंपउत्ताओ। जणयंति नीलपीतादिनाणमन्नो न हेतुत्ति ॥६९५॥ (आलयगता अनेकाः शक्तयः पाकसंप्रयुक्ताः । जनयन्ति नीलपीतादिज्ञानमन्यो न हेतुरिति ॥६९५॥) आलयगता:-आलयविज्ञानगता अनेकाः शक्तयः । 'पागसंपउत्त'त्ति । पाकसंप्रयुक्ता विपाकप्राप्ताः सत्यो जनयन्ति नीलपीतादिकं-नीलपीताद्याकारं ज्ञानमतस्ता एव हेतवो न पुनरन्यो बाह्योऽर्थ इति ॥६९५।। अत्राचार्य आह - ता आलयातो भिन्नाऽभिन्ना वा होज्ज ? भेदपक्खम्मि । ता चेव उ बज्झत्थोऽभेदे सव्वाणमेगत्तं ॥६९६॥ (ता आलयाद् भिन्ना अभिन्ना वा भवेयुः ? भेदपक्षे । ता एव तु बाह्यार्थोऽभेदे सर्वासामेकत्वम् ॥६९६॥) ता:-शक्तयो नीलपीताद्याकारज्ञानहेतवः आलयात्-आलयविज्ञानात्सकाशात् भिन्ना वा भवेयुरभिन्ना वा ? तत्र यदि भेदपक्षस्ततस्ता एव-शक्तयो बाह्योऽर्थः, ज्ञानादन्यस्य सर्वस्यापि वस्तुसतो बाह्यार्थत्वेनाभ्युपगमात् । अभेदे-अभेदपक्षे चाभ्युपगम्यमाने सर्वासामपि शक्तीनामेकत्वं प्राप्नोति, एकस्मादालायादनन्यत्वात्, तत्स्वरूपवत् ।।६९६।। एतदेव भावयति - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005535
Book TitleAnekantjaipataka Part 04
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy