SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ अधिकार: ) व्याख्या - विवरण - विवेचनसमन्विता २२१ -O स्वभावापत्तेः । तथाहि - अमृत्स्वभावेभ्य एवोदकादिभ्यो व्यावृत्तस्वभावः एवं स कपालपदार्थः स्यात्, न तु मृत्पिण्डशिवकघटादिभ्यो मृत्स्वभावेभ्योऽपि तद्व्यावृत्तौ अमृत्स्वभावत्वप्रसङ्गात् । यथैवामृत्स्वभावेभ्यो व्यावृत्तः सन् मृत्स्वभावो भवति, एवं मृत्स्वभावेभ्योऽपि व्यावृत्तोऽमृत्स्वभावः स्यात्, न्यायानुगतमेतत्, अन्यथाऽमृत्स्वभावव्यावृत्तावपि मृत्स्वभावत्वानुपपत्तेः ॥ * व्याख्या ह्युदकममृत्स्वभावेभ्यो व्यावृत्तम्, अमृत्त्वादेव । इति - एतदपि असमीक्षिताभिधानं वर्तते । कुत इत्याह-वस्तुनः-कपालमृदादेः असजातीयेतरेभ्यो व्यावृत्ताव्यावृत्ततया उभयस्वभावापत्तेः । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । अमृत्स्वभावेभ्य एवोदकादिभ्यः, 'आदि' शब्दाद् दहनादिग्रहः, व्यावृत्तस्वभावः- भिन्नस्वभावः एवं सतिअतत्स्वभावव्यावृत्त्यभ्युपगमे सति कपालपदार्थः स्यात्, न तु मृत्पिण्ड - शिवक- घटादिभ्यो मृत्स्वभावेभ्योऽपि व्यावृत्तस्वभावः । कुत इत्याह-तद्व्यावृत्तौ यथोदितमृत्स्वभावव्यावृत्तौ सत्याम् अमृत्स्वभावत्वप्रसङ्गात्, कपालपदार्थस्येति प्रक्रमः । एतद्भावनायैवाह-यथैवेत्यादि । यथैव अमृत्स्वभावेभ्यो व्यावृत्तः सन् कपालपदार्थ: मृत्स्वभावो भवति, एवं मृत्स्वभावेभ्योऽपि व्यावृत्तः सन् अमृत्स्वभावः स्यात् भवेत्, न्यायानुगतमेतत्, न्यायश्च यो यत्स्वभावेभ्यो व्यावर्तते नासौ तत्स्वभावो भवतीत्ययम् । इत्थं चैतदङ्गीकर्तव्यमित्याहअन्यथेत्यादि । अन्यथा एवमनभ्युपगमे । किमित्याह- अमृत्स्वभावव्यावृत्तावपि सत्याम्, प्रक्रमात् कपालपदार्थस्य, मृत्स्वभावत्वानुपपत्तेः । यो यत्स्वभावेभ्यो व्यावर्तते न स तत्स्वभाव एव भवतीति कृत्वा न्यायानुगतमेतदिति ॥ अनेडांतरश्मि ઉત્તરપક્ષ ઃ તમારું આ કથન પણ અસમીક્ષિત છે, કારણ કે એ રીતે તો વસ્તુના, (૧) વિજાતીયથી व्यावृत्त, जने (२) सभतीयथी सव्यावृत्त - सेम जे स्वभाव मानवानी आपत्ति आवशे. डा२ए॥ } (एवं सति) भे उपासनी, अमृत पहार्थोथी व्यावृत्ति मानशो, तो पछी तो प्रयास, અમૃત્ એવા ઉદકાદિથી જ વ્યાવૃત્ત થશે; મૃસ્વભાવી સ્મૃüિડાદિ પદાર્થથી નહીં, કારણ કે જો તૃત્પિડાદિથી પણ વ્યાવૃત્ત માનો, તો કપાલ અમૃત્ થઈ જાય.. જે રીતે તે ઉદકા અમૃત્થી વ્યાવૃત્ત હોવાથી મૃત્ છે, તેમ મૃત્પિડાદિ મૃત્થી વ્યાવૃત્ત હોવાથી અમૃત્ (=ઉદકાદિ) છે - આ ન્યાયાનુસારી જ છે; કારણ કે ‘જે જે સ્વભાવથી વ્યાવૃત્ત હોય તે તે સ્વભાવવાળો ન હોય’ – એવો ન્યાય છે. - જો એ ન્યાય ન માનો, તો ઉદકાદિ અમૃત્થી વ્યાવૃત્ત હોવા છતાં તમે તેને મૃત્ માની નહીં १. 'घटादिभ्योऽमृत्स्व०' इति क- पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005532
Book TitleAnekantjaipataka Part 01
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages370
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy