________________
૩૫૦
ધર્મતીર્થ સ્થાપના – ઉદ્દેશ અને વિધિ મળીને બાર પર્ષદા થાય છે. અત્યારે દેવી-દેવતાની પર્ષદા જ નથી; કારણ કે સંઘમાં એવું કોઈનું પુણ્ય જ નથી કે દેવતા-ઇન્દ્રો આદિ ધર્મશ્રવણ કરવા આવે. પણ તીર્થકરોનું પુણ્ય એવું જબરદસ્ત હોય છે કે તેઓ જ્યાં જ્યાં જાય ત્યાં ત્યાં બાર પર્ષદા ઊમટે. બાર પર્ષદામાં શ્રવણ કરવા આવનાર તમામની સમવસરણમાં બેસવા માટેની વ્યવસ્થા નિયત હોય છે. સાધુ-સાધ્વીજીઓ અને વૈમાનિકની દેવીઓ પૂર્વદિશાથી પ્રવેશી ડાબી બાજુ અગ્નિખૂણામાં બેસે, ભવનપતિ-વ્યંતર
१. अवयवार्थप्रतिपादनाय आहकेवलिणो तिउण जिणं तित्थपणामं च मग्गओ तस्स। मणमादीवि णमंता वयंति सट्ठाणसट्ठाणं ।।५५९ ।। व्याख्या-केवलिनः 'त्रिगुणं' त्रिः प्रदक्षिणीकृत्य 'जिन' तीर्थकर तीर्थप्रणामं च कृत्वा मार्गतः 'तस्य' तीर्थस्य गणधरस्य निषीदन्तीति क्रियाध्याहारः, 'मणमाईवि नमंता वयंति सट्ठाणसट्ठाणति मनःपर्यायज्ञानिनोऽपि भगवन्तमभिवन्द्य तीर्थं केवलिनश्च पुनः केवलिपृष्ठतो निषीदन्तीति। आदिशब्दानिरतिशयसंयता अपि तीर्थकरादीनभिवन्द्य मनःपर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा श्रमण्योऽपि तीर्थकरसाधूनभिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा भवनपतिज्योतिष्कव्यन्तरदेव्योऽपि तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे प्रथमं भवनपतिदेव्यः ततो ज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनःपर्याय-ज्ञान्यादयोऽपि नमन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति गाथार्थः ।।५५९।। भवणवई जोइसिया बोद्धव्वा वाणमंतरसुरा य। वेमाणिया य मणुया पयाहिणं जं च निस्साए ।।५६० ।। व्याख्या-भवनपतयः ज्योतिष्का बोद्धव्या व्यंतरसुराश्च, एते हि भगवन्तमभिवन्द्य साधूंश्च यथोपन्यासमेवोत्तरपश्चिमे पावें तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् स्त्रियश्चास्य, चशब्दस्य व्यवहित उपन्यासः । किम्?-'पयाहिणं' प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्वे दिग्भागे यथासंख्यमेव तिष्ठन्तीति। अत्र च मूलटीकाकारेण भवनपतिदेवीप्रभृतीनां स्थानं निषीदनं वा स्पष्टाक्षरैर्नोक्तम्, अवस्थानमात्रमेव प्रतिपादितं, पूर्वाचार्योपदेशलिखितपट्टकादिचित्रकर्मबलेन तु सर्वा एव देव्यो न निषीदन्ति, देवाः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिपादयन्ति केचन इत्यलं प्रसङ्गेन। 'जं च निस्साए'त्ति, यः परिवारो यं च निश्रां कृत्वा आयातः स तत्पार्श्वे एव तिष्ठतीति गाथार्थः ।।५६०।। साम्प्रतमभिहितमेवार्थं संयतादिपूर्वद्वारादिप्रवेशविशिष्टं प्रतिपादयन्नाह भाष्यकार:संजयवेमाणित्थी संजय(इ) पुव्वेण पविसिउं वीरं। काउं पयाहिणं पुव्वदक्खिणे ठंति दिसिभागे।।११६ । ।(भा.) गमनिका-संयता वैमानिकस्त्रियः संयत्यः पूर्वेण प्रविश्य वीरं कृत्वा प्रदक्षिणं पूर्वदक्षिणे तिष्ठन्ति दिग्भागे इति गाथार्थः । ।११६ भा०।। जोइसियभवणवंतरदेवीओ दक्खिणेण पविसंति। चिट्ठति दक्खिणावरदिसिंमि तिगुणं जिणं काउं । ।११७ । ।(भा.) गमनिका-ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन प्रविश्य तिष्ठन्ति दक्षिणापरदिशि त्रिगुणं जिनं कृत्वा इति गाथार्थः । ।११७ भा०।। अवरेण भवणवासी वंतरजोइससुरा य अइगंतुं। अवरुत्तरदिसिभागे ठंति जिणंतो नमंसित्ता ।।११८ । ।(भा.) गमनिका-अपरेण भवनवासिनो व्यन्तरज्योतिष्कसुराश्चातिगन्तुम् अपरोत्तरदिग्भागे तिष्ठन्ति जिनं नमस्कृत्य इति गाथार्थः । ।११८भा०।। समहिंदा कप्पसुरा राया णरणारिओ उदीणेणं। पविसित्ता पुव्वुत्तरदिसीए चिटुंति पंजलिआ ।।११९ । ।(भा.)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org