________________
३४२
ધર્મતીર્થ સ્થાપના - ઉદ્દેશ અને વિધિ જોઈએ, પરંતુ તમે તો આજના બાંધકામોમાં ત્યાં સંડાસ પણ બંધાવો છો. ઘણા આધુનિક મકાનોમાં ઇશાન ખૂણામાં જ ટોઈલેટ-સંડાસ હોય છે, જે ઘણું અહિતકારી છે. સમવસરણ १. एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः, साम्प्रतं विशेषेण प्रतिपादयन्नाहमणिकणगरयणचित्तं भूमीभागं समंतओ सुरभिं। आजोअणंतरेणं करेंति देवा विचित्तं तु ।।५४५।। व्याख्या-मणयः-चन्द्रकान्तादयः कनकं-देवकाञ्चनं रत्नानि-इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जलसमुद्भवानि रत्नानि, तैश्चित्रं, भूभागं 'समन्ततः' सर्वासु दिक्षु 'सुरभिं' सुगन्धिगन्धयुक्तं, किम्?-कुर्वन्ति देवा विचित्रं तु, किंपरिमाणमित्याह'आयोजनान्तरतो' योजनपरिमाणमित्यर्थः, पुनर्विचित्रग्रहणं वैचित्र्यनानात्वख्यापनार्थम्, अथवा कुर्वन्ति देवा विचित्रं तु, किंभूतम्?-मणिकनकरत्नविचित्रमिति गाथार्थः ।।५४५।। वेंटट्ठाइं सुरभिं जलथलयं दिव्वकुसुमणीहारिं। पइरंति समन्तेणं दसद्धवण्णं कुसुमवास । ।५४६ ।। व्याख्या-वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनिर्हारि प्रकिरन्ति समन्ततः दशार्द्धवर्णं कुसुमवर्ष, भावार्थः सुगमो, नवरं निर्हारि-प्रबलो गन्धप्रसर इति गाथार्थः ।।५४६।। मणिकणगरयणचित्ते चउद्दिसिं तोरणे विउव्वंति। सच्छत्तसालभंजियमयरद्धयचिंधसंठाणे ।।५४७।। व्याख्या-मणिकनकरत्नचित्राणि 'चउद्दिसित्ति चतसृष्वपि दिक्षु तोरणानि विकुर्वन्ति, किंविशिष्टान्यत आह-छत्रं-प्रतीतं सालभञ्जिकाः-स्तम्भपुत्तलिकाः 'मकरत्ति मकरमुखोपलक्षणं ध्वजाः प्रतीताः चिह्नानि-स्वस्तिकादीनि संस्थानं-तद्रचनाविशेष एव, सच्छोभनानि छत्रसालभञ्जिकामकरध्वजचिह्नसंस्थानानि येषु तानि तथोच्यन्ते, एतानि व्यन्तरदेवाः कुर्वन्तीति गाथार्थः ।।५४७।। तिन्नि य पागारवरे रयणविचित्ते तहिं सुरगणिंदा। मणिकंचणकविसीसगविभूसिए ते विउव्वेति ।।५४८ ।। व्याख्या-त्रींश्च प्राकारवरान् रत्नविचित्रान् तत्र सुरगणेन्द्रा मणिकाञ्चनकपिशीर्षकविभूषितांस्ते विकुर्वन्तीति, भावार्थः स्पष्टः, उत्तरगाथायां वा व्याख्यास्यति।।५४८ ।। सा चेयम्अब्भंतर मज्झ बहिं विमाणजोइभवणाहिवकया उ। पागारा तिण्णि भवे रयणे कणगे य रयए य।।५४९।। व्याख्या-अभ्यन्तरे मध्ये च बहिर्विमानज्योतिर्भवनाधिपकृतास्तु आनुपूर्व्या प्राकारास्त्रयो भवन्ति, 'रयणे कणगे य रयए यत्ति रत्नेषु भवो रात्नः रत्नमय इत्यर्थः, तं विमानाधिपतयः कुर्वन्ति, कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, राजतो-रूप्यमयश्च तं भवनपतयः कुर्वन्ति इति गाथार्थः ।।५४९।। मणिरयणहेमयाविय कविसीसा सव्वरयणिया दारा। सव्वरयणामय च्चिय पडागधयतोरणविचित्ता ।।५५० ।। व्याख्या-मणिरत्नहेममयान्यपि च कपिशीर्षकाणि, तत्र पञ्चवर्णमणिमयानि प्रथमप्राकारे वैमानिकाः, नानारत्नमयानि द्वितीये ज्योतिष्काः, हेममयानि तृतीये भवनपतय इति, तथा सर्वरत्नमयानि द्वाराणि त एव कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलतः पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः, अत एव प्रागुक्तं मणिकनकरत्नविचित्रत्वमेतेषामविरुद्धमिति गाथार्थः । ।५५०।। तत्तो य समंतेणं कालागरुकुंदुरुक्कमीसेणं। गंधेण मणहरेणं धूवघडीओ विउव्वेति।।५५१।। व्याख्या-ततश्च समन्ततः कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युक्ताः, किम्?-धूपघटिका विकुर्वन्ति त्रिदशा एवेति गाथार्थः । ।५५१।। उक्कुट्ठिसीहणायं कलयलसद्देण सव्वओ सव्वं । तित्थगरपायमूले करेंति देवा णिवयमाणा । ।५५२ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org