________________
8
----------
ભાવતીર્થ-રત્નત્રયી - - - - ---- -
सिद्धं सिद्धत्थाणं, ठाणमणोवमसुहं उवगयाणं | कुसमयविसासणं, सासणं जिणाणं भवजिणाणं ||१||
(सन्मतितर्क प्रकरण० श्लोक-१) અનંત ઉપકારી અનંત જ્ઞાની શ્રી તીર્થંકર પરમાત્મા મહામંગલકારી અને સર્વોત્કૃષ્ટ એવા આ ધર્મતીર્થની સ્થાપના કરે છે. ધર્મતીર્થના વર્ણનમાં રત્નત્રયીરૂપ ચોથું ભાવતીર્થ :
આ સંસારસાગરમાં જે જીવને તરવાની ઇચ્છા છે, પાર પામવાની અંતરથી અત્યંત અભિલાષા १. अथवा, प्राकृते "तित्थं" इत्युक्ते "त्रिस्थम्" इत्येतदपि लभ्यते, इत्येतदाहदाहोवसमाइसु वा जं तिसु थियमहव दंसणाईसु। तो तित्थं संघो च्चिय उभयं व विसेसणविसेस्सं । ।१०३५।। अथवा, यद् यस्माद् यथोक्तदाहोपशम-तृष्णाच्छेद-मलक्षालनरूपेषु, यदिवा, सम्यग्दर्शन-ज्ञान-चारित्रलक्षणेषु त्रिष्वर्थेषु स्थितं ततस्त्रिस्थं संघ एव; उभयं वा संघ-त्रिस्थितिलक्षणविशेषण-विशेष्यरूपं द्वयं त्रिस्थम्। इदमुक्तं भवति-किं त्रिस्थम्? संघः, कश्च संघः? (त्रिस्थ:-)त्रिस्थं, नान्यः, इत्येवं विशेषण-विशेष्ययोरुभयं संलुलितं त्रिस्थमुच्यत इति ।।१०३५ ।। अथवा, प्राकृते "तित्थं" इत्युक्ते "व्यर्थम्" इत्यपि लभ्यते, इत्येतद् दर्शयन्नाहकोहग्गिदाहसमणादओ व ते चेव जस्स तिण्णत्था। होइ तियत्थं तित्थं तमत्थसद्दो फलत्थोऽयं ।।१०३६ ।। क्रोधाग्निदाहोपशम-लोभतष्णाव्यवच्छेद-कर्ममलक्षालनलक्षणास्त एवानन्तरोक्तास्त्रयोऽर्थाः फलरूपा यस संघ एव; तदव्यतिरिक्तं ज्ञानादित्रयं वा व्यर्थं प्राकृते "तित्थं" उच्यते। अर्थशब्दश्चायं फलार्थो मन्तव्यः । इदमुक्तं भवति-भगवान् संघः, तदव्यतिरिक्तज्ञानादित्रयं वा महातरुरिव भव्यनिषेव्यमाणं क्रोधाग्निदाहशमनादिकांस्त्रीनर्थात् फलति, अतस्त्र्यर्थमुच्यत इति ।।१०३६।। अथवा, वस्तुपर्यायोऽत्रार्थ इत्याहअहवा सम्मइंसण-नाण-चरित्ताइं तिन्नि जस्सत्था। तं तित्थं पुव्वोइयमिह अत्थो वत्थुपज्जाओ।।१०३७ ।। अथवा, सम्यग्दर्शनादयस्त्रयोऽर्था यस्य तत् त्र्यर्थम्, अर्थशब्दश्चात्र वस्तुपर्यायः, त्रिवस्तुकमित्यर्थः। तच्च संघ एव, तदव्यतिरिक्तत्वात्, त एव वा सम्यग्दर्शनादयस्त्रयोऽर्थाः समाहतास्त्र्यर्थम्, संख्यापूर्वत्वात्, स्वार्थत्वाच्च द्विगोरिति ।।१०३७।।
(विशेषावश्यकभाष्य भाग-१, श्लोक १०३५ थी १०३७, मूल-टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org