________________
૨૮૨
ધર્મતીર્થ સ્થાપના - ઉદ્દેશ અને વિધિ લખ્યું છે કે “અર્થપુરુષાર્થ અને કામપુરુષાર્થ જિનમતમાં ધર્મના અવિરોધી અને ધર્મના પૂરક, પોષક છે'. આત્મિક દૃષ્ટિએ તમે અર્થોપાર્જનમાં સાર્થક પ્રયત્ન કરો તો તેને અમે અર્થપુરુષાર્થ કહીએ. તે રીતે કામના વિષયમાં આત્મિક દૃષ્ટિએ સાર્થક પ્રયત્ન કરો તો તેને અમે કામપુરુષાર્થ કહીએ. એ જ કારણે માર્ગાનુસારી, સમ્યગ્દષ્ટિ કે શ્રાવકના કર્તવ્યોમાં પ્રતિદિન ત્રિવર્ગઉપાસનાને ગુણ તરીકે વર્ણવેલ છે. ધર્મમાર્ગમાં પ્રવેશ કર્યા વિના અર્થપુરુષાર્થ, કામપુરુષાર્થ ન આવે. અનાર્ય જીવનવ્યવસ્થામાં પુરુષાર્થ હોતા જ નથી. આર્યમાં પણ બધાના જીવનમાં અર્થપુરુષાર્થ કે કામપુરુષાર્થ નથી. ઋષભદેવે પ્રજાને મર્યાદાપૂર્વકના અર્થ, કામ ગૃહસ્થજીવનમાં તેવા સંયોગોમાં બતાવ્યા,
क्रियाश्च ।।१।। इत्यादि" एते च परस्परविरोधिनोऽपि सन्तो जिनवचनमवतीर्णाः ततः कुशलाशययोगतो व्यवहारेण धर्मादितत्त्वस्वरूपतो वा निश्चयेन 'असपत्नाः' परस्पराविरोधिनो भवन्ति ज्ञातव्या इति गाथार्थः । ।२६४ ।। तत्र व्यवहारेणाविरोधमाहजिणवयणमि परिणए अवत्थविहिआणुठाणओ धम्मो। सच्छासयप्पयोगा अत्थो वीसंभओ कामोः।।२६५।। व्याख्या-जिनवचने यथावत्परिणते सति अवस्थोचितविहितानुष्ठानात्-स्वयोग्यतामपेक्ष्य दर्शनादिश्रावकप्रतिमाङ्गीकरणे निरतिचारपालनाद्भवति धर्मः, स्वच्छाशयप्रयोगाद्विशिष्टलोकतः पुण्यबलाच्चार्थः, विश्रम्भत उचितकलत्राङ्गीकरणतापेक्षो विश्रम्भेण काम इति गाथार्थः ।।२६५।। अधुना निश्चयेनाविरोधमाहधम्मस्स फलं मोक्खो सासयमउलं सिवं अणाबाहं। तमभिप्पेया साहू तम्हा धम्मत्थकाम त्ति ।।२६६ ।। व्याख्या-धर्मस्य निरतिचारस्य फलं 'मोक्षो' निर्वाणं, किंविशिष्टमित्याह-'शाश्वतं' नित्यम् 'अतुलम्' अनन्यतुलं 'शिव' पवित्रम् 'अनाबाध' बाधावर्जितमेतदेवार्थः 'त' धर्मार्थं मोक्षमभिप्रेताः-कामयन्तः साधवो यस्मात्तस्माद्धर्मार्थकामा इति गाथार्थः । ।२६६ ।।
(दशवैकालिकसूत्र, नियुक्ति श्लोक-२६४ थी २६६, मूल, हरिभद्रसूरिजीकृत टीका) * तथापरस्परानुपघातेनान्योऽन्यानुबद्धत्रिवर्गप्रतिपत्तिः ।।५०।। इह धर्मार्थकामास्त्रिवर्गः, तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः, यतः सर्वप्रयोजनसिद्धिः सोऽर्थः, आभिमानिकरसानुविद्धा यतः सर्वेन्द्रियप्रीतिः स कामः, ततः 'परस्परस्य' अन्योऽन्यस्य 'अनुपघातेन' अपीडनेन, अत एव 'अन्योऽन्यानुबद्धस्य' परस्परानुबन्धप्रधानस्य 'त्रिवर्गस्य प्रतिपत्ति:' आसेवनम्, ... तस्माद्धर्माबाधनेन कामा-ऽर्थयोर्मतिमता यतितव्यम्, यस्त्वर्थकामावुपहत्य धर्ममेवोपास्ते तस्य यतित्वमेव श्रेयो न तु गृहवासः, इति तस्यार्थ-कामयोरप्याराधनं श्रेय इति। ... इति पर्यालोच्य परस्पराविरोधेन धर्मार्थकामासेवनमुपदिष्टमिति।।५०।।
(धर्मबिन्दु अध्याय-१, सूत्र ५०. टीका) * यदाह- "यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च। स लोहकारभस्त्रेव श्वसन्नपि न जीवति।।" [ ] तत्र धर्माऽर्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम्। न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्तासक्तिः। धर्म-कामातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं पापस्य भाजनम्, सिंह इव सिन्धुरवधात्। अर्थ-कामातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानाम्। न च धर्मबाधयाऽर्थ-कामौ सेवेत। बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम्। स खलु सुखी योऽमुत्रसुखाविरोधेन इहलोकसुखमनुभवति। एवमर्थबाधया धर्म-कामौ सेवमानस्य ऋणाधिकत्वम्। कामबाधया धर्मा-ऽर्थो सेवमानस्य गार्हस्थ्याभावः स्यात्।
(योगशास्त्र प्रकाश-१, श्लोक-४७ थी ५६ टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org