________________
પરિશિષ્ટ : દ્રવ્યતીર્થ
૨૩૯
| परिशिष्ट : द्रव्यतीर्थ
छा
+ एतेन सिद्धाचलादेराराध्यत्वमपि व्याख्यातम्, ज्ञानदर्शनचारित्ररूपभावतीर्थहेतुत्वेनास्य द्रव्यतीर्थत्वादनन्तकोटिसिद्धस्थानत्वस्यान्यत्राविशेषेऽपि स्फुटप्रतीयमानतद्भावेन तीर्थस्थापनयैवात्र विशेषात्, अनुभवादिना तथासिद्धौ श्रुतपरिभाषाभावस्यातन्त्रत्वादन्यथा चतुर्वर्णश्रमणसंघे तीर्थत्वं तीर्थकरे तु तद्बाह्यत्वमित्यपि विचारकोटिं नाटीकेत। व्यवहारविशेषाय यथा तथा परिभाषणमपरिभाषणं च न व्यामोहाय विपश्चितामिति स्थितम्। भावनिक्षेपे तु न विप्रतिपत्तिरिति चतुर्णामपि सिद्धमाराध्यत्वम्।
(प्रतिमाशतक, श्लोक-२ टीका) તિહાં ગુર્વાદિક દેશનારે વિર્ષે સાત ક્ષેત્રના ફલ કહે છૅ એ સાત ક્ષેત્ર કહે છં-જિનપડિમા ૧, ગ્યાન ૨, દેહરું ૩, સાધુ ૪, સાધ્વી ૫, શ્રાવિકા ૬, શ્રાવક ૭. એ ઠિકાણે વિત્ત વાવરવો નરકતીયંચગતિ છેદી તીર્થકરગોત્ર ઉપાર્જન કરી બલદેવ ચક્રવર્તિ વાસુદેવ દેવગતિ મનુષગતિ ઉપજાવેં અત પ્રગટે, અરૂપી, અવ્યયીભાવ અક્ષયગણ પ્રગટેં, નિરાવલંબી થાઇ.
__(64u. यशोवि४य वि२थित त२ आठिया २१३५) जिनागमक्षेत्रे स्वधनवपनं यथा-जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदनमन्त्रायमाणो धर्माधर्म-कृत्याकृत्यभक्ष्याभक्ष्य-पेयापेय-गम्यागम्य-सारासारादिविवेचनाहेतुः सन्तमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते। यदूचः स्तुतिं श्रीहेमसूरयः- "यदीयसम्यक्त्वबलात्प्रतीमो, भवादृशानां परमाप्तभावम्। कुवासनापाशविनाशनाय,नमोऽस्तु तस्मै जिन(तव)शासनाय।।१।।" [अयोगव्यवच्छेद्वात्रिंशिकायाम् २१] जिनागमबहुमानिना च देव-गुरु-धर्मादयोऽपि बहुमता भवन्ति। किञ्च-केवलज्ञानादपि जिनागम एव प्रामाण्येनातिरिच्यते। यदाहुः- "ओहे सुओवउत्तो, सुअनाणी जइहु गिण्हइ असुद्धं । तं केवलीवि भुंजइ, अपमाण सुअं भवे इहरा।।१।।" [पिण्डनियुक्तौ गा. ५२४] एकमपि च जिनागमवचनं भविनां भवविनाशहेतुः। यदाहुः- "एकमपि च जिनवचनाद्यस्मानिर्वाहकं पदं भवति। श्रूयन्ते चानन्ताः, सामायिकमात्रपदसिद्धाः।।१।।" [तत्त्वार्थसम्बन्धकारिका २७] यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्यानं न रोचते जिनवचनम्, तथापि नान्यत्स्वर्गापवर्गमार्गप्रकाशनसमर्थमिति सम्यग्दृष्टिभिस्तदादरेण श्रद्धातव्यम्, यतः कल्याणभागिन एव जिनवचनं भावतो भावयन्ति, इतरेषां तु. कर्णशूलकारित्वेनामृतमपि विषायते। यदि चेदं जिनवचनं नाभविष्यत्तदा धर्माधर्मव्यवस्थाशून्यं भवान्धकारे भुवनमपतिष्यत्। यथा च-'हरीतकी भक्षयेद्विरेककाम' इति वचनाद्धरीतकीभक्षणप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्यमवसीयते, तथाऽष्टाङ्गनिमित्त-केवलिका-चन्द्रार्कग्रहचार-धातुवाद-रस-रसायनादिभिरप्यागमोपदिष्टैर्दृष्टार्थवाक्यानां प्रामाण्यनिश्चयेनादृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्चेतव्यम्, जिनवचनं दुष्षमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुन-स्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम्। ततो जिनवचनबहुमानिना तल्लेखनीयम्, वस्त्रादिभिरभ्यर्चनीयं च। यदाह- "न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम्। न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम्।।१।।" जिनागमपाठकानां भक्तितः सन्माननं च। यदाह- "पठति पाठयते पठतामसौ, वसन-भोजन-पुस्तकवस्तुभिः। प्रतिदिनं कुरुते य उपग्रहं, स इह सर्वविदेव भवेन्नरः।।१।।" लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यापनम्, व्याख्यापनार्थं दानं, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति ३।
(धर्मसंग्रह, श्लोक-१ टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org