________________
ઉપકરણદ્રવ્યતીર્થ
૨૩૩ * पात्रेभ्योऽशनपानादिधर्मोपग्रहदानतः। करोति तीर्थाव्युच्छित्तिं, प्राप्नोति च परं पदम्।।१८६।।
(त्रिषष्टिशलाकापुरुषचरित्र पर्व-२, सर्ग-१) * श्राति धर्मश्रुतौ श्रद्धां, वपते क्षेत्रसप्तके। करोति शुद्धमाचारं, श्रावको निरवाचि सः । ।१९० ।।
(पं. सुमतिविजय गणि कृता उपदेशकल्पवल्लिः ) * आयासशतलब्धस्य, प्राणेभ्योऽपि गरीयसः । दानमेकैव वित्तस्य, गतिरन्या विपत्तयः ।।२६५ ।। क्षेत्रेषु सप्तसु वपन्, न्यायोपात्तं निजं धनम्। साफल्यं (सफल) कुरुते श्राद्धो, निजयोर्धनजन्मनोः ।।२६६।।
(चारित्रसुंदरगणि विरचित आचारोपदेश वर्ग-६) * व्याजे स्याद्विगुणं वित्तं, व्यवसाये चतुर्गुणम्। क्षेत्रे शतगुणं प्रोक्तं, पात्रेऽनन्तगुणं भवेत्।।२५० ।। चैत्यप्रतिमापुस्तकवेदश्रीसंघभेदरूपेषु । क्षेत्रेषु सप्तसु धनं, वपेद् भूरिफलाप्तये।।२५१।। चैत्यं यः कारयेद्धन्यो, जिनानां भक्तिभावतः। तत्परमाणुसंख्यानि, पल्यान्येष सुरो भवत्।।२५२।। यत्कारितं चैत्यगृहं, तिष्ठेद्यावदनेहसम्। स तत्समयसंख्यानि, वर्षाणि त्रिदशो भवेत्।।२५३।। सुवर्णरूप्यरत्नमयीं, दृषल्लेख(प्य)मयीमपि। कारयेद्योऽर्हतां मूत्तिं स वै तीर्थंकरो भवेत्।।२५४।। अङ्गुष्ठमात्रामपि, यः प्रतिमां परमेष्ठिनः। कारयेदाप्य शक्रत्वं, स लभेत्परमं पदम्।।२५५।। धर्मद्रुमूलं सच्छास्त्रं, जानन्मोक्षफलप्रदम्। लेखयेद्वाचयेद्यच्च, शृणुयाद् भावशुद्धिकृत्।।२५६।। लेखाप्यागमशास्त्राणि, यो गुणिभ्यः प्रयच्छति। तन्मात्राक्षरसंख्यानि, वर्षाणि त्रिदशो भवेत्।।२५७।। ज्ञानभक्तिं विधत्ते यो ज्ञानविज्ञानशोभितः । प्राप्नोति स नरः प्रान्ते, केवलिपदमव्ययम्।।२५८।। .
(चारित्रसुंदरगणि विरचित आचारोपदेश वर्ग-६) * दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च। भवार्णवोत्तारणसत्तरण्डं, धर्मं चतुर्धा मुनयो वदन्ति।।३२ ।। जिनभवनबिम्ब-पुस्तक-चतुर्विधश्रमणसङ्घरूपाणि। सप्त क्षेत्राणि सदा, जयन्ति जिनशासनोक्तानि।।३३।। पुण्याद्वं पौषधागारं तत्रैत्य ग्राहको जनः । व्रतादिपण्यं क्रीणाति, क्रमेणानन्तलाभदम्।।३४ ।। अङ्गुष्ठमानमपि यः प्रकरोति बिम्बं, वीरावसानवृषभादिजिनेश्वराणाम्। स्वर्गे प्रधानविपुलर्द्धिसुखानि, भुक्त्वा पश्चादनुत्तरगतिं समुपैति धीरः । ।३५ ।। लेखयन्ति नरा धन्या, ये जैनागमपुस्तकान्। ते सर्ववाङ्मयं ज्ञात्वा, सिद्धिं यान्ति न संशयः । ।३६।।
(उपदेशसार) * जिणमंदिरभूमीए, दसगं. आसायणाण वज्जेह। जिणदव्वभक्खणे, रक्खणे य दोषे गुणे मुणह।।४८।। ... भक्खेइ जो उवक्खेइ, जिणदव्वं तु सावओ। पनाहीणो भवे जो उ, लिप्पइ पावकम्मुणा।।५४ ।। आयाणं जो भंजइ, पडिवनं धणं न देइ देवस्स। नस्संतं समुवेक्खइ, सो वि हु परिभमइ संसारे।।५५।। चेइयदव्वं साहारणं च, जो दुहइ मोहियमइओ। धम्मं व सो न जाणइ, अहवा बद्धाउओ नरए।।५६।। चेइयदव्वविणासे, तद्दव्वविणासणे दुविहभेए। साहू उविक्खमाणो, अणंतसंसारिओ भणिओ।।५७।। जिणपवयणवुड्किरं, पभावगं नाणदंसणगुणाणं। भक्खंतो जिणदळ, अणंतसंसारिओ होइ।।५८ ।। जिणपवयणवुड्किरं, पभावगं नाणदंसणगुणाणं। रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ।।५९।। जिणपवयणवुड्किर, पभावगं नाणदंसणगुणाणं। वडेतो जिणदव्वं, तित्थयरत्तं लहइ जीवो।।६०।।
__ (चन्द्रप्रभसूरि विरचित दर्शनशुद्धिप्रकरण) * तम्हा उ नायतत्तेणं, सुत्तं अत्थं अहिज्जिउं। निस्संकिएण होयव्वं, अंबडो अभओ जहा।।९६।। निसामित्ता य सिद्धतं, तओ किच्चं निरूवए। एयं च इत्थ कायव्वं, एयं उद्धरियव्वयं ।।१७।। तं तु सव्वं निरूवित्ता, करे जं करणिज्जयं। सओ य परओ चेव, कायव्वं जिनमंदिरे।।९८ ।। तं नाणं तं च विनाणं, तं कलासु य कोसलं। सा बुद्धी पोरिसं तं च, देवकज्जेण जं वए।।९९।। जिणभवणाई जे उद्धरंति भत्तीइ सडियपडियाई। ते उद्धरंति अप्पं भीमाओ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org