________________
ભાવતીર્થ - ચતુર્વિધ શ્રીસંઘ
३४३ જ છે કે શ્રીસંઘના મુખ્ય ઘટકસ્વરૂપ ગચ્છનો તેમને સુંદર પરિચય થયો છે. આ ધના સાર્થવાહ અબજોપતિ શ્રીમંત છે. તે સાથે લઈને નીકળ્યો છે. તેમના સાર્થમાં વિહારરૂપે આચાર્ય ભગવંત પણ પરિવાર સાથે જોડાયા છે. મહાત્માએ સામે ચાલીને કહ્યું છે કે અમારે તમારા સાર્થમાં આવવું છે. આ સંસ્કારી છે, માર્ગાનુસારી ગુણોનો ભંડાર છે, એટલે રાજી થઈને કહે છે કે, અહો ! મારું ભાગ્ય કે મહાત્મા મારા સાર્થમાં પધારે ! તરત સ્વીકાર કર્યો, સાથે લઈ ચાલે છે. અબજોપતિ વેપારી અને સાર્થવાહ છે, તેથી જવાબદારીઓ પુષ્કળ છે. સાર્થમાં પોતાની જવાબદારીમાં એટલા વ્યગ્ર થઈ ગયા છે કે મહાત્માઓ પધાર્યા છે તે વાત જ ભૂલી ગયા. એક દિવસ રાત્રે પથારીમાં અચાનક યાદ આવ્યું કે જૈન ધર્માચાર્ય અનેક શિષ્યો સાથે મારા સાર્થમાં આવ્યા છે, પણ મેં પ્રમાદીએ હજુ સુધી એક વાર પણ ખબર-અંતર પૂછ્યા નથી. તેથી વહેલી સવારે જાગીને રથમાં
इति चिन्तयतस्तस्योत्सुकस्य मुनिदर्शने। तुर्यो यामस्त्रियामायास्त्रियामेवाऽपराऽभवत्।।।११६ ।। विभातायां विभावाँ, शुचिवस्त्रविभूषणः। सूरीणामाश्रयमगात्, सप्रधानजनो धनः।।११७।। पलाशच्छदनच्छन्नं, सच्छिद्रतृणभित्तिकम्। स्थलस्थण्डिलसंस्थानं, तेषां सोऽविशदाश्रयम्।।११८ ।। मन्थानमिव पापाब्धेः, पन्थानमिव निर्वृतेः। आस्थानमिव धर्मस्य, संस्थानमिव तेजसाम्।।।११९ ।। कषायगुल्मनीहारं, हारं कल्याणसम्पदः । सङ्घस्याऽद्वैतमाकल्पं, कल्पद्वंशिवकाक्षिणाम्।।१२० ।। पिण्डीभूतं तप इव, मूर्तिमन्तमिवाऽऽगमम्। तीर्थङ्करमिवाऽद्राक्षीद्, धर्मघोषमुनिं धनः।।१२१ ।।[त्रिभिर्विशेषकम्।] ध्यानाधीनात्मनः कांश्चित्, कांश्चिन्मौनावलम्बिनः। कायोत्सर्गस्थितान् कांश्चित्, पठतः कांश्चिदागमम्।।१२२ ।। वाचनां ददतः कांश्चित्, कांश्चिद् भूमिं प्रमार्जतः। वन्दमानान् गुरून् कांश्चित्, कांश्चिद् धर्मकथाजुषः।।१२३ ।। श्रुतमुद्दिशतः कांश्चित्, कांश्चित् तदनुजानतः । तत्त्वानि वदतः कांश्चित्, तत्राऽद्राक्षीन्मुनीनपि।।१२४ ।। [त्रिभिर्विशेषकम्।] सोऽवन्दताऽऽचार्यपादान्, साधूनपि यथाक्रमम्। तस्मै ते धर्मलाभं च ददुः पापप्रणाशनम्।।१२५ ।। आचार्यपादपद्मान्ते, राजहंस इवाऽथ सः। निषद्याऽऽसादितानन्द, इति वक्तुं प्रचक्रमे।।१२६।। तदाऽऽकारयता युष्मान्, भगवन्नात्मना सह। मुधैव सम्भ्रमोऽदर्शि, शरद्गर्जितवन्मया।।१२७ ।। आरभ्य तद्दिनाद् यूयं, न दृष्टा न च वन्दिताः। न चाऽन्नपानवस्त्राद्यैः, कदाचिदपि सत्कृताः।।१२८ ।। जाग्रत्सुषुप्तावस्थेन, मया मूढेन किं कृतम्? । यद् यूयमवजज्ञिध्वे, ध्वस्तस्ववचसा चिरम्।।१२९ ।। भगवन्तः! सहध्वं तत्, प्रमादाचरणं मम। सर्वंसहा महान्तो हि, सदा सर्वंसहोपमाः।।१३० ।। सूरयोऽप्यूचिरेऽस्माकं, त्वया किं किं न सत्कृतम्? । दुःश्वापदेभ्यो दस्युभ्यस्त्रायमाणेन वर्त्मनि।।१३१ । । तवैव सार्थिका यच्छन्त्यन्नपानादि चोचितम्। तन्न सीदति नः किञ्चित्, मा विषीद महामते! ।।१३२।। धनोऽप्यूचे गुणानेव, सन्तः पश्यन्ति सर्वतः । ततो मम सदोषस्याऽप्याराध्यैरेवमुच्यते।।१३३।। सर्वथा स्वप्रमादेन, लज्जितोऽस्मि प्रसीदत। साधून् प्रेषयताऽऽहारं, प्रयच्छामीच्छया यथा ।।१३४ । । सूरिर्बभाषे योगेन, वर्त्तमानेन वेत्सिनु । अकृताऽकारिताऽचित्तमन्नाद्युपकरोति नः।।१३५ । । तदेव दास्ये साधूनां, यदेवोपकरिष्यते। इत्युदित्वा च नत्वा च, निजावासं ययौ धनः।।१३६ ।। अस्याऽनुपदमेवाऽथ, साधुद्वितयमागमत् । तदर्ह चाऽन्नपानादि, दैवादासीन किञ्चन।।१३७ ।। इतस्ततोऽन्वेषयंश्च, सार्थवाहः स्वयं ततः । ईक्षाञ्चक्रे घृतं स्त्यानं, निजाशयमिवाऽमलम् ।।१३८ ।। इदं वः कल्पते किञ्चिदिति सार्थपतीरिते। इच्छामीति वदन् साधुः पतद्ग्रहमधारयत्।।१३९ ।। धन्योऽहं कृतकृत्योऽहं, पुण्योऽहमिति चिन्तयन्। रोमाञ्चितवपुः सर्पिः, साधवे स स्वयं ददौ।।१४०।। आनन्दाश्रुजलैः पुण्यकन्दं कन्दलयन्निव। घृतदानावसानेऽथ धनोऽवन्दत तौ मुनी।।१४१ सर्वकल्याणसंसिद्धौ, सिद्धमन्त्रसमं ततः। वितीर्य धर्मलाभं तो, जग्मतुर्निजमाश्रयम्।।१४२।। तदानीं सार्थवाहेन, दानस्याऽस्य प्रभावतः। लेभे मोक्षतरोर्बीजं, बोधिबीजं सुदुर्लभम्।।१४३।।
(त्रिषष्टिशलाकापुरुषचरित्र पर्व - १, सर्ग १)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org