________________
२८४
ભાવતીર્થ - ચતુર્વિધ શ્રીસંઘ तीर्थं पुनश्चातुर्वर्णः श्रमणसंघः प्रथमगणधरो वा। तथा चोक्तं-तित्थं भंते तित्थं तित्थगरे तित्थं गोयमा अरहं ताव नियमा तित्थंकरे तित्थं पुण चाउव्वन्नो समणसंघो पढमगणधरो वा इत्यादि।
(श्रावकप्रज्ञप्ति श्लोक ७६ टीका) ★ तित्थं चाउव्वण्णो संघो सो पढमए समोसरणे। उप्पण्णो उ जिणाणं वीरजिणिंदस्स बीअंमि।।२६५ ।।
(आवश्यकसूत्र नियुक्ति एवं भाष्य) ★ भावतीर्थं तु नोआगमत: संघ:, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उक्तं - “तित्थं भंते! तित्थं? तित्थकरे तित्थं? गोयमा! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउव्वण्णो समणसंघो, पढमगणहरो वा”।
(आवश्यकसूत्र नियुक्ति एवं भाष्य श्लोक ८० टीका) ★ प्रवक्तीति वा प्रवचनं सङ्घः।
(आवश्यक नियुक्ति एवं भाष्य श्लोक ९० टीका) ★ 'तीर्थं' प्राक्निरूपितशब्दार्थ, तच्च संघ इत्युक्तं, इह तु तदुपयोगानन्यत्वात् प्रवचनं तीर्थमुच्यते,
__ (आवश्यकसूत्र नियुक्ति एवं भाष्य श्लोक १३० टीका) * प्रवचनं-श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्घ इति.. (आवश्यकसूत्र नियुक्ति एवं भाष्य श्लोक १७१ थी १८१ टीका) * 'पवयणत्ति' प्रवचनं अशेषः सङ्घः चतुर्विधश्रीश्रमणसङ्घः। (सम्यक्त्वसप्ततिः श्लोक १८-१९-२० टीका) ★ महाराजपथो मुक्तेश्चतुर्वर्णविराजितम्। द्वादशाङ्गं पुनर्जनं वचनं पुरमुच्यते।। .
(वैराग्यरति चोथो सर्ग श्लोक १२९८, वैराग्यकल्पलता पांचमो स्तबक श्लोक १३०६) * यदेतदाचारादिदृष्टिवादपर्यन्तं द्वादशाङ्गं परमागमरूपं तदाधारभूतचतुर्वर्णश्रीश्रमणसङ्घलक्षणं वा मन्दिरं
(उपमिति० प्रथम प्रस्ताव) ★ भावतीथं तु चतुर्वर्णः श्रमणसङ्घः प्रथमगणधरो वा। यदाह- “तित्थं भन्ते तित्थं तित्थयरे तित्थं? गोयमा! अरिहा ताव नियमा तित्थंकरे। तित्थं पुण चाउवण्णे समणसंघे पढमगणहरे वा” [भगवतीसू० ६८२] ।
(योगशास्त्र प्रकाश २ श्लोक १६ टीका) ★ तत्र तीर्थे चतुर्विधश्रमणसङ्घ उत्पन्ने सति ये सिद्धाः ते तीर्थसिद्धाः।१। अतीर्थे जिनान्तरे साधुव्यवच्छेदे सति जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्धाः अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा, तदा तीर्थस्याऽनुत्पन्नत्वात्।।
(योगशास्त्र प्रकाश ३, श्लोक १२३ टीका) ★ तित्थंति पुव्वभणियं संघो जो णाण-चरणसंघाओ। इह पवयणं पि तित्थं तत्तोऽणत्थंतरं जेण।।१३८०।।
(विशेषावश्यकभाष्य मूल) ★ भावे भावविषयं श्रुतविहितं श्रुतप्रतिपादितं सङ्घस्तीर्थम्, तथा च भगवत्यामुक्तम्, “तित्थं भंते! तित्थं तित्थयरे तित्थं? । गोयमा! अरहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवन्नो समणसंघो” इति। (विशेषावश्यकभाष्य श्लोक १०३२ टीका) अकस्मात् पुनः संघो भावतीर्थम्?, इत्याहयद् यस्मात् तारयति पारं प्रापयति तेन तत् संघलक्षणं भावतस्तीर्थमिति संबन्धः। कुतस्तारयति?, इत्याह-तद्विपक्षभावादिति तेषां ज्ञान-दर्शन-चारित्राणां विपक्षोऽज्ञान-मिथ्यात्वाविरमणानि तद्विपक्षस्तल्लक्षणो भावो जीवपरिणामस्तद्विपक्षभावस्तस्मात् तारयति। कुतः?, इत्याह-ज्ञान-दर्शन-चारित्रभावतः-ज्ञानाद्यात्मकत्वादित्यर्थः । यो हि ज्ञानाद्यात्मको भवति सोऽज्ञानादिभावात् परं तारयत्येवेति भावः । न केवलमज्ञानादिभावात् तारयति, तथा, भवभावतश्च तारयति, भवः संसारस्तत्र भवनं भावस्तस्मादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org