SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ૨૫૫ ભાવતીર્થ - દ્વાદશાંગી 'દ્વાદશાંગીની આરાધનાથી અનંતા તર્યા, આશાતનાથી અનંતા ડૂળ્યા : દ્વાદશાંગીનો હિતકારી અને અહિતકારી બંને ઉપયોગ શક્ય છે. તેથી જ અપાત્રને શાસ્ત્રો અહિતકારી બને છે. દ્વાદશાંગીને પામીને જ અનંતા જીવો તર્યા છે, અનંતા ડૂળ્યા છે. તરનારાઓએ સદુપયોગ કર્યો, ડૂબનારાઓએ દુરુપયોગ કર્યો. જ્ઞાન એ જબરજસ્ત શક્તિ છે. તેનો સદુપયોગ-દુરુપયોગ બંને થઈ શકે છે. શક્તિ સ્વ-પરના હિતમાં વપરાય તે સદુપયોગ, સ્વ-પરના અહિતમાં વપરાય તે દુરુપયોગ. આ દુનિયાનો १ आधुनिकाः पण्डिम्मन्या: केचन 'इच्चेइयं दुवालसंग' इत्यादिसूत्रं दर्शयन्तो जमालेरनन्तभवत्वं निश्चिनवते, अनेन च तेषामेतत्सूत्रतात्पर्यानवबोधो निश्चियते, तथा हि यद्यप्यत्र टिकायां चातुरन्तसंसारकान्तारभ्रमणे जमालिदृष्टान्तीकृतोऽस्ति तथाऽपि एकदेशेनैवाऽयं दृष्टान्तो, न हि दृष्टान्तदान्तिकयोः सर्वात्मना तुल्यत्वम्, मुखमाह्लादकारिचन्द्रवदित्यादिवत्तेन च संसारभ्रमणे एव जमालिदृष्टान्तो न तु चातुरन्तसंसारकान्तारे, संसारभ्रमणं च जमालेः पञ्चदशभिर्भवैः संपन्नमेव, यदि च दृष्टान्तस्यैकदेशत्वानङ्गीकारेण सर्वात्मना जमालिदृष्टान्तस्तर्हि भगवत्या सह विरोध: संपनीपद्यते। यथा अत्र चातुरन्तसंसारकान्तारभ्रमणमुक्तं तत्र तु जमाले: 'चत्तारि पंच देवमणुयतिरिक्खजोणियभवग्रहणाई' इत्यादिना गतित्रय एव पञ्चदशानामेव भवानामुक्तत्वादित्यलं व्यासेन, अनेन सूत्रेण नैवानन्तभवत्वं निर्णेतुं शक्यमिति। सूत्र च यथा-"इच्चेइयं दुवालसंगं गणिपिडगं अतिते काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिस। इच्चेइयं वालसंगं गणिपिडगं पडुप्पन्ने काले परित्ता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियटृति। इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिस्संति। इच्चेइयं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए आराहित्ता चाउरंतसंसारं बितिवइंसु। एवं पडुप्पन्नेवि अणागएवि।त्ति," वृत्तिर्यथा-सांप्रतं द्वादशाङ्गविराधनानिष्पन्नं त्रैकालिकं फलमुपदर्शयन्नाह-'इच्चेइयमित्यादि' इत्येतद्द्वादशाङ्गं गणिपिटकमतीते काले अनन्ता जीवा आज्ञया विराध्य च(चा?)तुरंतसंसारकान्तारं 'अणुपरियटिंसुत्ति अनुपरिवृतवन्तः। इदं हि द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधम्, ततश्चाज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यथा पाठादिलक्षणया अतीते काले अनन्ता जीवाश्च(चा?)तुरन्तं संसारकान्तारं नरकतिर्यग्नरामरंविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृतवन्तो जमालिवत्। अर्थाज्ञया पनरभिनिवेशतोऽन्यथा प्ररूपणादिलक्षणया गोष्टामाहिलादिवत्। उभयाज्ञया पुन: पंचविधाचारपरिज्ञानकरणोद्यतगुर्वादेशारन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् सूत्रार्थोभयैर्विराध्येत्यर्थः । अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्टानमेवाज्ञा तया तदकरणेनेत्यर्थः। 'इच्चेइयमित्यादि गतार्थमेव, नवरं 'परित्ता जीवा' इति । संख्येया जीवा वर्त्तमानविशिष्टविराधकमनुष्यजीवानां संख्येयत्वात् 'अणुपरियट्टतित्ति अनुपरावर्तन्ते भ्रमन्तीत्यर्थः 'इच्चेइयमित्यादि इदमपि भावितार्थमेव नवरं 'अणुपरियट्टिस्संति' त्ति अनुपरावर्तिष्यन्ति-पर्यटिष्यन्तीत्यर्थः। 'इच्चेइयमित्यादि' कंठ्यं नवरं 'बिईवइंसुत्ति व्यतिव्रजितवन्त:-चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः । एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेषः। 'बिईवइंति'त्ति, व्यतिव्रजंति व्यतिक्रामन्तीत्यर्थः। अनागतेऽप्येवं, नवरं 'बीइवइस्संति'त्ति व्यतिव्रजिष्यन्ति व्यतिक्रमिष्यन्तीत्यर्थः। इति समवायाङ्गे ८५ प्रतौ ७० पत्रे।।६।। (विचाररत्नाकर समवायाङ्गविचारनामा चतुर्थ तरंग) २ इत्येतद् द्वादशाङ्गं गणिपिटकं अतीतकालेऽनन्ता जीवा आज्ञया आराध्य चतुरन्तं संसारकान्तारं "वितिवइंसु" त्ति व्यतिक्रान्तवन्तः, चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः।। (नंदीसूत्र० सूत्र ११७ टीका) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005530
Book TitleDharmtirth Part 01
Original Sutra AuthorN/A
AuthorYugbhushanvijay
PublisherGangotri Granthmala
Publication Year2007
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy