SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ - ભાવતીર્થ - ગીતાર્થ ગુરુ ૨૦૫ + अथ ये यथा भगवतः समवसरणे निषीदन्ति तिष्ठन्ति वा तानभिधित्सुः सङ्ग्रहगाथामाहतित्थाऽइसेससंजय, देवी वेमाणियाण समणीओ। भवणवइ-वाणमंतर-जोइसियाणं च देवीओ।।११८५।। 'तीर्थं' गणधरस्तस्मिन् उपविष्टे सति अतिशायिनः संयता उपविशन्ति, ततो देव्यो वैमानिकानाम्, ततः श्रमण्यः, तथा भवनपति-व्यन्तर-ज्योतिष्काणां च देव्य इति।।११८५।। अथैतदेव विवृणोतिकेवलिणो तिउण जिणं, तित्थपणामं च मग्गओ तस्स। मणमाई वि नमंता, वयंति सट्ठाण सट्ठाणं ।।११८६।। केवलिनः पूर्वद्वारेण प्रविश्य जिनं 'त्रिगुणं' त्रिप्रदक्षिणीकृत्य 'नमस्तीर्थाय' इति वचसा तीर्थप्रणामं च कृत्वा 'तस्य' तीर्थस्य-प्रथमगणधररूपस्य शेषगणधराणां च 'मार्गतः' पृष्ठतो दक्षिणपूर्वस्यां निषीदन्ति। तथा "मणमाई वि" त्ति मनःपर्यवज्ञानिन आदिशब्दाद् अवधिज्ञानिनः चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विण आमर्पोषध्यादिविविधलब्धिमन्तश्च प्राच्यद्वारेण प्रविश्य भगवन्तं त्रिःप्रदक्षिणीकृत्य नमस्कृत्य च'नमस्तीर्थाय, नमो गणधरेभ्यः, नमः केवलिभ्यः' इत्यभिधाय केवलिनां पृष्ठत उपविशन्ति। शेषसंयता अपि प्राचीनद्वारेणैव प्रविश्य भुवनगुरुं प्रदक्षिणीकृत्य वन्दित्वा च'नमस्तीर्थाय, नमो गणभृद्भ्यः, नमः केवलिभ्यः, नमोऽतिशयज्ञानिभ्यः' इति भणित्वा अतिशयिनां पृष्ठतो निषीदन्ति। एवं मनःपर्यायज्ञान्यादयोऽपि नमन्तः सन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति। तथा वैमानिकानां देव्यः पूर्वद्वारेण प्रविश्य भुनबान्धवं त्रिप्रदक्षिणीकृत्य नत्वा च'नमस्तीर्थाय, नमः सर्वसाधुभ्यः' इत्यभिधाय निरतिशयसाधूनां पृष्ठतस्तिष्ठन्ति न निषीदन्ति। श्रमण्योऽपि पौरस्त्यद्वारेण प्रविश्य तीर्थकृतं प्रदक्षिणीकृत्य प्रणम्य च तीर्थस्य साधूनां च नमस्कारं विधाय वैमानिकदेवीनां पृष्ठतस्तिष्ठन्ति न निषीदन्ति। (ग्रन्थाग्रं ५००० आदितः ९६००) भवनपतिदेव्यो जोतिष्कदेव्यो व्यन्तरदेव्यश्च दाक्षिणात्यद्वारेण प्रविश्य तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे यथाक्रममेव तिष्ठन्ति।।११८६।। भवणवई जोइसिया, बोधव्वा वाणमंतरसुरा य। वेमाणिया य मणुया, पयाहिणं जंच निस्साए।।११८७।। भवनपतयो ज्योतिष्का वानमन्तरसुराश्च एते भगवन्तमभिवन्द्य यथोपन्यासमेव पृष्ठतः पृष्ठत उत्तरपश्चिमे दिग्भागे तिष्ठन्तीति बोद्धव्याः। वैमानिका देवा मनुष्याः चशब्दाद् मनुष्यस्त्रियश्च प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्योत्तरपूर्वे दिग्भागे यथाक्रममेव तिष्ठन्तीति। "जं च निस्साए" त्ति यः परिवारः 'यं' देवं मनुजं वा 'निश्राय' निश्रां कृत्वा आगतः तस्यैव पार्श्वे तिष्ठति।।११८७ ।। श्लोक ११८५-१९८६-१९८७ मूल-टीका Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005530
Book TitleDharmtirth Part 01
Original Sutra AuthorN/A
AuthorYugbhushanvijay
PublisherGangotri Granthmala
Publication Year2007
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy