________________
પરિશિષ્ટ - ભાવતીર્થ - ગીતાર્થ ગુરુ
देहि प्रव्रज्यां जगत्पूज्यां स्वगोत्रिणाम् । श्रेयस्यपि सकर्णोऽपि किमद्यापि प्रमाद्यसि ? । । १२० ।। अथार्यरक्षितः स्माह यदि सत्यमिदं वचः। ततस्त्वं तावदादत्स्व वत्स! सत्त्वहितं व्रतम् ।। १२१ ।। एवमुक्तस्ततस्तेन श्रद्धानिर्धूतमानसः । सोऽवदद्देहि कोहि स्यात्पीयूषस्य पराङ्मुखः । । १२२ ।। अथार्यरक्षितः प्रीतस्तस्यामृतकिरा गिरा । स्वयं तमनुजग्राह दीक्षया शिक्षयाऽपि च ।। १२३ ।। यातुमुक्तोऽन्यदा फल्गुरक्षितेनार्यरक्षितः । अधीताशेषयमको गन्तुमूचे पुनर्गुरुम् ।।१२४ ।। प्राग्वन्निवारितस्तेन स खेदादित्यचिन्तयत्। स्वजनाह्वानगुर्वाज्ञासङ्कटे पतितोऽस्मि हा । । १२५ ।। अधीयानः पुनः प्राग्वद्यमकेभ्यः पराजितः । कृताञ्जलिपुटो भूत्वा गुरून्नत्वा च सोऽब्रवीत् । ।१२६ ।। दशमस्यास्य पूर्वस्य मयाधीतं कियत्प्रभो ? । अवशिष्टं कियच्चेति सप्रसादं समादिश।।१२७ । । जगाद गुरुरप्येवं स्मितविच्छुरिताधरः । बिन्दुमात्रं त्वयाऽधीतमब्धितुल्यं तु शिष्यते । । १२८ ।। इति श्रुत्वा गुरोर्वाचमूचिवानार्यरक्षितः । परिश्रान्तोऽहमध्येतुं प्रभुर्नातः परं प्रभो ! ।। १२९ ।। शेषमप्यचिरेणापि त्वमागमयसि श्रुतम् । धीमन्नधीष्व धीरोऽसि किमकाण्डे विषीदसि ? । । १३० ।। एवमाश्वासितस्तेन गुरुणा करुणावता । पुनः प्रवृत्तः सोऽध्येतुं भग्नोत्साहोऽपि भक्तिभाक् । ।१३१।। (युग्मम्) फल्गुरक्षितमन्येद्युर्मूर्तिमद्बन्धुवाचिकम्। दर्शयन्नुत्सुको गन्तुं श्रीवज्रं स पुनर्जगौ।।१३२।। अयमुत्साह्यमानोऽपि हन्त गन्तुमनाः कथम् ? । एवं विचिन्तयन्वज्रस्वाम्यभूदुपयोगभाक्।।१३३।। सोऽथामंस्तेत्यतो यातो नायमायास्यति ध्रुवम् । स्तोकं ममायुर्मय्येव पूर्वं च दशमं स्थितम् ।। १३४ । । अनुज्ञातस्ततस्तेन गमनायार्यरक्षितः । सफल्गुरक्षितः शीघ्रं पुरं दशपुरं ययौ । । १३५ ।। सर्ग १३ मो
૨૦૨
O
विशेषावश्यकभाष्य टीका
-
भावे भावविषयं श्रुतविहितं श्रुतप्रतिपादितं सङ्घस्तीर्थम्, तथा च भगवत्यामुक्तम्, "तित्थं भंते! तित्थं तित्थयरे तित्थं? । गोयमा ! अरहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवन्नो समणसंघो" इति । इह च तीर्थसिद्धौ तारकादयो नियमादाक्षिप्यन्त एव । तत्रेह संघे तीर्थे तद्विशेषभूत एव तारकः साधुः, ज्ञान-दर्शन- चारित्रत्रिकं पुनस्तरणम्, तरणीयं तु भवसमुद्रः । इह च तीर्थतारकादीनां परस्परतोऽन्यता, अनन्यता च विवक्षावशतो बोद्धव्या । तत्र सम्यग्दर्शनादिपरिणामात्मकत्वात् संघस्तीर्थम्, तत्रावतीर्णानामवश्यं भवोदधितरणात् । तद्विशेषभूतत्वात् तदन्तर्गत एव साधुस्तरीता, सम्यग्दर्शनाद्यनुष्ठानात्। साधकतमत्वेन तत्करणरूपतामापत्रं ज्ञानादित्रयं तु तरणम् । तरणीयं त्वौदयिकादिभावपरिणामात्मकः संसारसमुद्र इति । । १०३२ ।।
श्लोक १०३२ टीका
सन्मतितर्कप्रकरण तृतीय कांड टीका
अथ "तित्थपणामं काउं" [आवश्यकनि० समवस० गा० ४५] इत्याद्यागमप्रामाण्यात् प्रथमगणधरस्य 'तीर्थ'शब्दाभिधेयत्वात् तदवन्द्यत्वं तस्यासिद्धं तर्हि चातुर्वर्ण्यश्रमणसंघस्यापि 'तीर्थ'शब्दवाच्यत्वात् तत्र तु तासामन्तर्भावात्
महाव्रतस्थपुरुषावन्द्यत्वं तासामपि असिद्धम् ।
श्लोक ६५ टीका
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org