________________
પરિશિષ્ટ - ભાવતીર્થ - ગીતાર્થ ગુરુ
૧૯૯ + 'इत्तरत्ति। यावद्द्वयेऽप्येतेऽनुधावन्ति तावदित्वरसामायिकच्छेदोपस्थापनसंयमावनुधावतः, यावच्चैतौ तावद्द्वौ निर्ग्रन्थावनुधावतस्तद्यथा-बकुशः प्रतिसेवकश्च। यावन्मूलगुणप्रतिसेवना तावत्प्रतिसेवकः, यावदुत्तरगुणप्रतिसेवना तावद्बकुशः, ततो यावत्तीर्थं तावद्बकुशाः प्रतिसेवकाश्चानुषजन्तीति नाचारित्रं प्रसक्तं प्रवचनम्।।१२।।।
प्रथम उल्लास श्लोक ९२ टीका + 'गिहिसंघायंति। गृहिणा-संसारिणां मातापित्रादीनां सङ्घातं 'हित्वा' परित्यज्य संयमसङ्घातमुपगतः सन् णमिति वाक्यालङ्कारे ज्ञानचरणसङ्घातं सङ्घातयति स्वात्मनि स्थितं करोति स ज्ञानचरणं सङ्घातयन् भवति सङ्घः, सङ्घातयतीति सङ्घ इतिव्युत्पत्तेः। विपरीतस्तु सङ्घो न भवति।।१४०।।
___ द्वितीय उल्लास श्लोक १४० टीका + 'दसत्ति। दर्शनज्ञानसमग्राः क्रियातश्च हीना अपि शुद्धप्ररूपणागुणाः 'दृढम्' अतिशयेन तीर्थस्य प्रभावका भवन्ति। तीर्थं पुनः सम्पूर्णं चतुर्विधश्रमणसङ्घः, तदुक्तं प्रज्ञप्त्याम्-"तित्थं भंते! तित्थं तित्थयरे तित्थं? गोयमा! अरहा ताव णियमा तित्थंकरे, तित्थं पुण चाउव्वण्णे समणसंघे, तंजहा- समणा य समणीओ सावया य साविआओ।" त्ति। इदानीं तात्त्विकश्रमणानभ्युपगमे च द्विविधसङ्घस्यैव प्रसङ्गः, तात्त्विकश्रावकानभ्युपगमे च मूलत एव तद्विलोपः, सम्यक्त्वस्यापि साधुसमीपे ग्राह्यत्वेन तदभावे तस्याप्यभाव इति सर्वं कल्पनामात्रं स्यादिति न किञ्चिदेतत्।।६।।
प्रथम उल्लास श्लोक २०६ टीका ३ पंचाशक टीका + संपूर्णदशपूर्वधरो हि अमोघवचनत्वाद्धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमादिकल्पं न प्रतिपद्यते।
पंचाशक० प्रतिमाकल्पप्रकरण पंचाशक श्लोक ५ टीका २ मार्गपरिशुद्धि + (९७२) अयमनुयोगी प्राज्ञः, प्रवचनकार्येषु नित्यमुद्युक्तः।।
. योग्येभ्यो व्याख्यानं, दद्यात्सिद्धान्तविधिनैव।।१४८।। २ पंचवस्तुक टीका + शिष्याणा'मिति शिष्येषु करोति कथमसो तथाविधः अज्ञः सन् 'हन्दी'त्युपप्रदर्शने ज्ञानादीनां गुणानां ज्ञानादिगुणानामधिकाधिकसंप्राप्तिं, वृद्धिमित्यर्थः, किम्भूतामित्याह- संसारोच्छेदिनी सम्प्राप्तिं 'परमां' प्रधानामिति गाथार्थः ।।९४०।। तथा-'अल्पत्वात्' तुच्छत्वात् कारणात् 'प्रायो' बाहुल्येन, न हि तुच्छोऽसतीं गुणसम्पदमारोपयति, तथा हेयादिविवेकविरहतो वाऽपि, हेयोपादेयपरिज्ञानाभावत इत्यर्थः, न ह्यन्यतोऽपि - बहुश्रुतादसौऽज्ञस्तां प्राप्तिं करोति तेषु, कुत इत्याह-'मिथ्याभिमानाद्' अहमप्याचार्य एव कथं मच्छिष्या अन्यसमीपेशृण्वन्तीत्येवंरूपादिति गाथार्थः ।।९४१ । । ततस्तेऽपिशिष्याः तथाभूता-मूर्खा एव कालेन बहुनापि भवन्ति नियमत एव, विशिष्टसम्पर्काभावात्, शेषाणामपिअगीतार्थशिष्यसत्त्वानां गुणहानि: 'इय' एवं 'सन्तानेन' प्रवाहेन विज्ञेयेति गाथार्थः।।९४२।। द्वारम्।।
श्लोक ९४०-९४२ टीका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org