SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ मदन-धनदेवकथा 163 अथाऽत्र पुरे श्रीणां निधि: श्रीपुञ्जः श्रेष्ठ्यस्ति। अस्य पुत्रचतुष्कोपरि श्रीमती सुता जाता, यां सर्वा विद्या: कलाश्च सस्पर्धमिव शिश्रियुः। तदुद्वाहे जायमाने वसुदत्तसार्थे शस्य सुतो हयारूढश्चलचारुचामरैरुपवीजित उत्तमाङ्गधृतस्फारमायूरातपवारणो देवदूष्यसदृशक्षौम-सर्वाभरणभूषित उत्सवैस्तां परिणेतुं यावत्तोरणे आयाति, तावद् उत्सववीक्षणार्थं बहुभिर्जनैर्मिलितैः पर्यस्ततोरणस्तम्भः सहसा तिर: पपात। तदनाच्छीर्षवलिका निपत्य वरस्य शिरोऽस्फोटयत्, ततश्च मर्मघातात् सयमाऽतिथिरभूत्। आकस्मिक महाशोकविह्वल: सपरिच्छदः सार्थप आक्रन्दन् सद्य: स्वगृहेऽगमत्। अथ श्रीपुञ्जः श्रेष्ठी विधिनिर्मितमिदं स्वरूपं विज्ञाय स्वपरिवारेणं साकमिति विचारं निर्ममे- अन्यथा प्रारब्धं कार्य, दैवेनाऽन्यथा विदधे, प्राणिनां प्राच्यकर्मणां विषमां गतिं को वेत्ति?। इयं कन्या यदि अद्याऽस्मिन्नेव लग्ने न परिणाय्यते तदा तदभाग्यस्य सर्वतो जने प्रसिद्धौ जातायां सकलङ्कामिमां पुत्रीं कोऽपि न परिणेष्यति, यत: सर्वोऽपि प्रायश्चिंर जीवितमिच्छेद् न तु प्रियाम्। तद् यथाभाग्यं येन केनापि उद्यौवनेन वरेणेयुषा इयं पुत्री अद्यैव परिणाय्यते। एवं विचार्य श्रेष्ठी कश्चिद्वरं विलोकितुं सर्वत: स्वान् जनान् प्रेषीत्, तेऽपि पुरे सर्वतो भ्रमन्तस्तमुत्सवं द्रष्टुं तत्र प्राप्तं युवानं वराकारं धनदेवं वीक्ष्य सम्मानात् श्रेष्ठिनोऽन्तिके आनयन्। श्रेठ्यपि स्वपुत्र्या अनुरुपं दृष्टा भृशमभ्यर्थ्य तेन यूना सोत्सवं विधिना कन्यां पर्यणीनयत्। मया पूर्व पत्नयोरीदृशं स्वरूपं ददृशे, तदात्मन: क्षेमं वाञ्छता यथा तथा ते त्याज्ये। पत्नी विनाऽतिथिपूजाद्यभावतो निर्वाहो न भवति, तत एतां गुणशालिनी सुरूपां स्वयंवरां पित्रा चाऽभ्यर्थनापूर्वं दीयमानां कथं त्यजामि? इति विचिन्त्य धनदेवस्तां मुदैव उपयेमे। इतश्च तत्प्रिये स्वैरं क्रीडित्वा तं नव्यप्रकारं विवाहं श्रुत्वा द्रष्टुमुत्सुके अत्र समागते, सुरमिथुनोपमं च वधू-वरयुग्मं वीक्ष्य तद्रूपविस्मिते दैवात्तं योगं तुष्टुवतुः। लघ्व्यवक्-अयं वर आर्यपुत्र इवाऽऽभाति । तदा ज्येष्ठा जजल्प-रुपाद्यैः समाना: पुरुषा: किं न भवन्ति?। आवयोः पतिस्तु शीतज्वरातॊ निद्राणो गृहेऽस्ति, तस्याऽत्र कथमागति:?, ततोऽत्र तं मा शङ्किष्ठाः। ततस्ते क्रीडायै स्वेच्छया पुन:क्वापि प्रापतुः। अथ वधूयुतो धनदेवो वासधाम जगाम, तत्राऽप्यूर्ध्वगृहस्याऽग्रगवाक्षगतस्त Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005520
Book TitleMadan Dhandev Charitra
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy