________________
162
श्री पदविजय विरचिता
मम कथयिष्यामि, परं त्वं क: किं च दुःखित?। ततो मदनोऽवदत्- मित्र! मम दुःखं कथ्यमानं लज्जाकरं भवेत्, तथाप्येषोहं तव वदामि, यत: प्रथमेऽपि दर्शने स्नेहवान् साधर्मिकोऽसि, सतां च तत्कथितं प्रायश: प्रतिबोधाय भवेत्।
तत: कुशस्थलग्रामवासादारभ्य तत्रागमनावधि स्ववृत्तं यथास्थितं सोऽखिलमाख्यत्। अथ धनेदेवोऽभणत्-सखे! इदं कियन्मात्रम्?, यदि मम वृत्तान्तमाश्चर्यकारणं शुणोषि तदा जानासि। मदन: स्माह- श्रोतुमुत्कण्ठुलोऽस्मि, तद् ब्रूहि। ततो धनदेव: स्ववृत्तान्तमब्रवीत्। तद्यथा
अत्रैव महापुर्यां गुणी श्राद्धधर्मे रतो धनपतिः श्रेष्ठयासीत्, तस्य च लक्ष्मीदे॒धा प्रियाऽऽसीत्। तयोविविधोपायौँ तनयौ नाम्ना धनसार-धनदेवौ अजायेताम्। तौ सर्वकला: पाठितौ कन्ये च परिणायितौ। सद्धर्म-सुखलीनानां तेषां कियान् कालस्त्वगात्।
अथ पितरौ विशुद्धधर्मेण स्वर्गमीयतुः, तदा तौ सशोकौ पुत्रौ मुनिचन्द्रमहर्षिणा बोधितौ, परं सस्नेहयोस्तयोः प्रिये परस्परं कलहायेते। ततस्तौ विभक्तसारौ पृथग्गृहयोरस्थाताम्। अथ स्वजायां स्वैरिणीं वीक्ष्य लघुबान्धव उद्विग्नः, ज्येष्ठेनोद्वेगकारणं पृष्टः, सोऽपि तस्मै स्त्रीकृताऽसमाधिमाह। धनसारस्तदभिप्रायं प्रयत्नतो विज्ञाय भ्रातृस्नेहाद् अन्यां रुप-कला-गुणैराठ्याम् इभ्यजां कन्यकां धनदेवेन पर्यणीनयत्। तदा स धृतिमान् तया नवोढया सह भोगानभुङ्क्ते, परं भाविवशात् प्राक्पत्नीव साऽपि कमात् स्वैरिण्यभूत्।
अन्यदा धनदेवस्तयोश्चरितं जिज्ञासुः सायं जगौ- प्रिये! अद्य मम भृशं शीतज्वरोऽचटत्। ततस्ताभ्यां शय्यायामास्तृतायां स द्रुतम् अस्वपत्, वासोभिश्च पिहितेक्षणाद् मायया निद्रामदीदृशत्। रात्रौ यामान्ते घोरशब्दतस्तं निद्राणं मत्वा ज्येष्ठा कनिष्ठामवदत्- हे स्वस:! सामग्री कुरु। ततो द्रुतं गृहकृत्यानि कृत्वा ते उभे निर्याय गृहोद्यानसहकारद्रुमोपरि आरुढे। अथ धनदेवस्ते निर्गते निरीक्ष्य रहोऽन्वगात, चूतस्य कोटरे तस्थौ, स्वं च वस्त्रेण बबन्ध। ततस्ताभ्यां मन्त्रे जप्ते तरुाग् नभसा उदपतत्, अम्बुधौ च द्राग् गत्वा रत्नद्वीपे रत्नपुरे स्थितः। ते स्त्रियौ तस्मादुत्तीर्य पुरस्यान्त: प्राविक्षतां, यथारूचि च विचित्राणि चित्राणि निरीक्षेते। धनदेवोऽपि इमे अनुसरन् पुरे प्राविशत्, तयोश्च तादृक्चरित्रेण विस्मयापन्नो गच्छति।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org