________________
मदन-धनदेवकथा
141
||७८।।
॥७९॥
||८०॥
||८१॥
।।८२॥
तपस्वी चाऽनशत्सद्यो, भीत्या तरललोचनः । विस्मितोऽगात्पदं लोको, दध्यौ विद्युल्लता ततः धिग् धिग् निरपराधोऽयं, तपस्वी पीडितो मया। न जाने क्व गतो भर्ता?, मिलिष्यति पुनर्न वा शिक्षया तं वशीकृत्य, भोक्ष्ये भोगान् यथारूचि। एवं मनोरथो व्यर्थो, ममाऽभूदधुना किल अभूजने ममोद्घाटो वियोगोऽपि धवेन च। तज्जज्ञे हस्तयोर्दाहः, प्रौत्स्यन्त पूपकाश्च हा! मदनोऽथ निरीक्ष्यैतद्दध्यौ नानारसाकुलः । अनयाऽनेन वृत्तेन, निर्जिते प्राप्रिये मम योगिनामप्यगम्यानि, योषितां चरितान्यहो। धिग् धिग् रागान्धितान्, जीवान् रज्यन्ते येऽत्र तास्वपि राक्षसीः सर्पिणीयाघ्रीः, क्रौर्यान्नार्योऽतिचक्रमुः। विश्वसन्ति य एतासु, नृरूपाः पशवो हि ते ततश्चण्डां प्रचण्डां च, त्यक्त्वा विद्युल्लतामपि । करिष्ये स्वहितं येन, सङ्कटाच्छुटितोऽस्म्यतः ध्यात्वेति मदनो भ्राम्यन्, हसन्तीं नगरीमगात् । श्रिया सर्वपुरीर्जित्वा, हसन्तीमिति सान्वयाम् तत्रोद्याने ददर्शाऽभ्र-लिहं चैत्यं हिरण्मयम् । प्रविश्य विधिना तत्र, भक्तिहर्षोच्छ्वसत्तनुः प्रणम्य तुष्टुवे रात्न-प्रतिमामादिमाऽर्हतः। आलुलोके च चैत्यस्य, स्वर्विमानजितः श्रियम्
॥८३।।
||८४॥
॥८५॥
||८६॥
||८७॥
||८८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org