________________
140
श्री मुनिसुन्दरमूरिविरचिता
॥६७॥
॥६८॥
॥६९॥
||७०॥
॥७१॥
जवाद् द्वावपि तौ यान्तौ सङ्काशपुरमीयतुः । गेहे विद्युल्लतायाश्च, प्राविशद् द्रुतमूरणः को वृत्तान्तो भवेदस्येतीक्षितुं गृहतो बहिः । रहः क्वाऽपि स्थितः सम्यक्, पश्यतीमं सविस्मयः विद्युल्लताऽथ तं स्वौकः, प्राप्तं वीक्ष्योरणं क्रुधा। पिधाय सत्वरं द्वारं दण्डेनाऽताडयद् दृढम् त्यक्त्वा निरपराधां मां, सापराधे अपि प्रिये। रे रे रमयितुं यासि?, न व्यरंसीचिरादपि मुशलं किमु मे नास्ति?, परं तेन न हन्म्यहम्। भर्तुः प्राणापहरां किं, करोमीति घृणावशात् चण्डाया मुशलाद्रीतः, प्रचण्डां शरणं श्रितः। मया नु हन्यमानस्त्वं किं नु त्राणं प्रपत्स्यसे? वादं वादमितीमं सा-ऽताडयच मुहुर्मुहुः । आरसन्तं च तं श्रावं, श्रावं लोकोऽमिलत्पुनः जजल्प किमरे! मूढे!, ताडयस्यघृणे! पशुम्। बिभेषि हत्यया नाऽस्य, वणिक्कुलभवाऽपि किम्? ततश्च साप्यसिञ्चत्तमभिमन्त्रितवारिणा। ऊरणोऽभूद्यथारूपो, भस्माक्ताङ्गो जटाधरः वीक्ष्य तं च जनोऽप्राक्षीद्दन्त! किमिदं तव । तव सोऽपि स्ववृत्तान्तं यथागद्गदमूचिवान् यः खादति करम्बं स, धकुम्ब सहतीति च। तदाद्याभाणको लोका-देष प्रववृते भुवि
॥७२॥
॥७३॥
||७४॥
७५।।
॥७६॥
|७७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org