________________
११७
શરીરને પ્રતિક્ષણ મેદ અને પાકમક્રિયા १७ आहारपरिणामाच्च देहभेदोऽवगम्यते । पाकजोत्पत्तिमार्गेण न जीर्येतान्नमन्यथा ॥ न भवेत् परिपोषो हि दधिक्षीरादिभक्षणे । प्राक्तनस्याविनाशे न दृश्यते तस्य रिक्तता ।। क्षीणैरवयवैः कैश्चित् कैश्चिच्चाभिनवोद्गतैः ।
अभिन्न एवावयवी कथं भवितुमर्हति । तथा च केचित् पच्यमानस्य घटादेरपि प्रागवस्थाविसदृशरूपादियोगिनः पाककारणभूतवेगवदग्निद्रव्यसंयोगपर्यालोचनयैव प्रलयोदयौ कल्पितवन्तः ।
यद्यपि कन्दुकनिक्षिप्ता घटादयः तृणपर्णादिपिहितवपुषोऽपि तद्विवरप्रसृतेन नयनरश्मिना न विनष्टा इत्युपलभ्यन्ते, यद्यपि तत्संख्याः तत्परिमाणाः तत्सन्निवेशास्तद्देशाश्च पक्का अपि दृश्यन्ते, यद्यपि पतन्तो न विभाव्यन्ते, यद्यपि च तदा तेषां कादिकारणकलापासंभवात् पुनर्घटनमधटमानमिव लक्ष्यते, तथाऽपि तेषामनुमानेन विनाशः परिकल्प्यते । सर्वावयवेष्वन्तर्बहिश्च पाकात् पूर्वरूपादिविलक्षणगुणोपलब्धेरन्तःप्रवेशः कृशानोरनुमीयते । तेन वेगवता वह्निद्रव्येण नोदनादभिघाताद्वा नूनं घटाद्यारम्भकेष्ववयवेषु क्रिया जायते, क्रियातो विभागः, विभागाद् द्रव्यारम्भकसंयोगविनाशः, तद्विनाशाद् द्रव्यविनाश इति । अनुप्रवेशपक्षेऽपि सूक्ष्मविवरपरिकल्पनादवश्यमवयवसंयोगविघटनं घटादेरिति विनाश एव । अपि च पाकानन्तरं कन्दुकादपकृश्यमाणाः पिठरादयः केचित् स्फुटिताः, केचिद् वक्रतां गताः, केचित् सन्निवेशान्तरमेव प्रतिपन्ना दृश्यन्ते । तस्मादपि पश्यामो नश्यन्तीति । तत्संख्यत्वादिति सर्वमनैकान्तिकं सूच्यग्रविद्धकण्ठकोणैः कुम्भादिभिः । अतः पूर्वोक्तनीत्या नष्टेषु घटादिकार्यद्रव्येषु परमाणव एव पच्यन्ते, पक्काश्च श्यामादिगुणानवजहतो रक्तादिगुणान्तरयोगमनुभवन्तः प्राणिगतसुखदुःखोपभोगसाधनभूतादृष्टप्रेर्यमाणाः परस्परं संयुज्य व्यणुकादिप्रक्रमेण तादृशमेव घटादिकार्यमारभन्ते । तत्रामुष्मिन् क्षणेऽमुष्य कार्यस्य प्रसवोऽमुष्य प्रलय इति प्रक्रिया न लिख्यते, ग्रन्थविस्तरभयादप्रयोजनत्वाच्चेति । एवं तपनातपपच्यमानेष्वाम्रादिफलेष्वेष एव न्यायः । शरीरेऽप्यौदर्येण तेजसा पच्यमानेष्वन्नपानादिषु रसमलधातुभावेन परिणाममुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पादविनाशौ सम्भवत इति स्थैर्याभावात् कथमनुसन्धानादिकार्ययोगोऽस्येति ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org