________________
ક્લપ્રવકત્વવાદી અને નિયોગવાયાર્થવાદી વચ્ચે વિવાદ
૨૯૧
નિયોગવાક્યર્થવાદી– કારણ કે તે વિધ્યર્થ પણ ભાવાર્થની સિદ્ધિ દ્વારા નિષ્પન્ન થાય છે, અને આપણે બેલીએ પણ છીએ કે મેં સ્વામીને નિગ કર્યો” (મેં સ્વામીની याज्ञा पार पाडी').
277. भावार्थात् तर्हि निष्पत्तिर्नियोगस्य फलस्य च ।
इत्येकत्र पदग्रामे वाक्यार्थद्वयमापतेत् ॥ किं चान्विताभिधानेन विषयत्वावधारणात् । नियोगस्यैव भावार्थनिष्पाद्यत्वं प्रतीयते ।। स तु भावार्थतः सिद्धो फलाय यदि कल्प्यते । परार्थत्वादवाक्यार्थो भवेदित्युपवर्णितम् ॥ भावार्थस्तु द्वयं कुर्यात् युगपद्वा क्रमेण वा ।
युगपन्नास्य सामर्थ्य समत्वं च द्वयोर्भवेत् ॥ नियोगश्च शब्दैकगोचरत्वात् मा दर्शि, फलं तु वर्गपश्वादि तेन सह निष्पद्यमानं किमिति न गृह्यते ? । क्रमपक्षे पूर्व वा नियोगः, पश्चात् फलं, पूर्व वा फलं, पश्चाद्वा नियोगः सिद्धयेदिति ? यदि पूर्व नियोगः, तदा नियोगस्यासंपाद्यत्वात् तद्विषयाया लिप्साया अनुपपत्तेः करणांशेऽपि वैधी प्रवृत्तिः स्यात् ।
यथा नियोगनिष्पत्तिः प्रयाजादिकृतेन तु ।
तत्र प्रवृत्तिः शास्त्रीया भावार्थेऽपि तथा भवेत् ॥ इष्यते इति चेत् ।
नन्वेवं तस्य लिप्सार्थलक्षणेत्यभ्यधायि यत् ।।
श्येनादीनामधर्मत्वं वर्णितं तद्विरुध्यते ॥ अथ पूर्व फलसिद्धिः, ततो नियोगसिद्धिः, तहि फलस्य तदानीं दर्शनं भवेत् सिद्धत्वात् ।
न च भावार्थवेलायां पुत्रपश्वादि दृश्यते ।
अदृश्यमानमप्येतत् सिद्धमित्यतिविस्मयः ॥ अतश्च यत् कैश्चिदुच्यते वर्गसिद्धिमवान्तरव्यापारीकृत्य नियोगमेव भावार्थः सम्पादयतीति, तदप्यपास्तम् , अवान्तरस्य व्यापारस्य ज्वलनादेरिव प्रधानव्यापारात् पूर्व दर्शनप्रसङ्गादिति ।