________________
શબ્દ અનુમાનથી જુદુ પ્રમાણ નથી अन्वयव्यतिरेकौ च भवतोऽत्रापि लिङ्गवत् । यो यत्र दृश्यते शब्दः स तस्यार्थस्य वाचकः ।। पक्षधर्मत्वमप्यस्ति शब्दः एव यतोऽर्थवान् । प्रकल्पयिष्यते पक्षो धूमो दहनवानिव ॥ तत्र धूमत्वसामान्यं यथा वहति हेतुताम् । गोऽश्वादिशब्दसामान्यं तद्वदत्रापि लक्ष्यते ।। एवं विषयसामग्रीसाम्यादेकत्वनिश्चये । न विलक्षणतामात्र किञ्चिदन्यत्वकारणम् ॥ पूर्ववर्णक्रमोद्भूतसंस्कारसहकारिता । पुरुषापेक्षवृत्तित्वं विवक्षानुसृतिक्रमः ॥ इत्यादिना विशेषेण न प्रमाणान्तरं भवेत् । कार्यकारणधर्मादिविशेषोऽत्रापि नास्ति किम् ॥ यथेष्टविनियोज्यत्वमपि नान्यत्वकारणम् । हस्तसंज्ञादिलिङ्गेऽपि तथाभावस्य दर्शनात् ॥ दृष्टान्तनिरपेक्षत्वमभ्यस्ते विषये समम् । अनभ्यस्ते तु सम्बन्धस्मृतिसापेक्षता द्वयोः ॥ अनेकप्रतिभोत्पत्तिहेतुत्वमपि विद्यते । अस्पष्टलिङ्गे कस्मिंश्चिदश्व इत्यादिशब्दवत् ॥ स्फुटार्थानवसायश्च प्रमाणाभासतो यथा । लिड्ने तथैव शब्देऽपि नानार्थभ्रमकारिणि ॥ अपि च प्रतिभामात्रे शब्दाज्जातेऽपि कुत्रचित् । आप्तवादत्वलिङ्गेन जन्यते निश्चिता मतिः ॥ अत एव हि मन्यन्ते शब्दस्यापि विपश्चितः । आप्तवादाविसंवादसामान्यादनुमानताम् ॥ किञ्च शब्दो विवक्षायामेव प्रामाण्यमश्नुते ।
न बाह्ये व्यभिचारित्वात् तस्यां चैतस्य लिङ्गता ॥ 8. વિરધી (બૌદ્ધ) કહે છે – આ ચર્ચા રહેવા દે, પરંતુ એ વિચારે કે શા માટે શબ્દનું અલગ લક્ષણ તમે કહો છો. અનુમાનથી શબ્દની ભિન્નતા અમને દેખાતી નથી.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org