________________
शून्यवादः ।
[१.१६
चेति रसाणवः । तेपामिति रूपाणूनाम् । अथासन्त इत्यादि । तत्सत्तेति यस्मिन, क्षणे तेषां सत्त्वमभूत् तदपहाय द्वितीयादिक्षणेषु तेपामसत्त्वात् ।।
६४ नापि स्थूलरूपः, यतस्तादृशोऽप्यसौ नित्यः, अनित्यो वा स्यात् ? न तावद नित्यः, परमाणुनित्यतानिराकरणानुसारेणास्यापि व्यपासितुं शक्यत्वात् । नाप्यनित्यः, यतस्तस्य समुत्पादे स्थूलमेव किञ्चित् कारणम्. अणवो वा ? प्राच्यः पक्षः स्थवीयान्, स्थूलाद्वैतवादस्य वावदूकानां वदितुमयुक्तत्वात् , सूक्ष्मापेक्षयैव स्थूलस्य व्यवस्थानात्, कुवलापेक्षया कुवलयस्येव ।
३५ अथाणवस्तत्कारणम् , तर्हि तदयेतनस्तदुभयस्वभावार्थपक्षः कक्षीकृतः स्यात् । अस्त्वयमेवेति चेत् । तर्हि ते निरतिशयाः, सातिशया वा स्थूलमर्थं प्रथयेयुः ? आये भेदे, भूर्भुवःस्वस्त्रयीकुहरकोणकुदितैकैकपरमाणुभिर्विशकटितैरपि सदैव तदुत्पादनप्रसङ्गः। द्वितीये तु, कस्तेपामतिशयः-एकदेशावस्थितिः, संयोगः, क्रिया वा : प्रथमपक्षे, क्षोणीमण्डलाऽऽलम्बिपरिमण्डलैः स्थूलैककार्थक्रियाप्रसक्तिः, तस्यैकदेशरूपत्वात् । अथ यावति प्रदेशे कतिपयेऽपि परमाणवः कार्यमेकमर्जयन्ति तावानवैकः प्रदेशः, न सकलमिलामण्डलम् इति चेत् । तहतिरेतराश्रयपिशाचप्रवेशः सिद्धे हि कार्य देशैक्यसिद्विः, तत्सिद्धौ च तसिद्धिरिति । संयोगश्चेदतिशयः---स किं नित्यः.
अनित्यो वा ! यदि नित्यः. तदा सदाऽपि तदुत्पाद्यकार्योत्पादप्रसङ्गः । अनित्यश्चेत् । किमन्यत एव, तभ्योऽपि वा प्रादुःप्यात् . नाद्यो भेदः, तदाधारधर्मस्याऽन्यत एवोत्पत्तिविरोधात् । द्वितीये तु, तदुत्पत्तावपि निरतिशयाः, सातिशया वा ते व्याप्रियेरन ! प्राचि, प्राचीन एव दोपः। द्वितीये तु, अतिशयोत्पत्तावप्यतिशयान्तरेण भाव्यम् , तत्रापि तेन--इत्यनवस्थाकदर्थनम् ।
૬૪ થુલરૂપ અર્થ પણ યુક્તિદ્વારા સિદ્ધ થઈ શકતું નથી, કારણ કે-- ધૂલ અર્થ પણ નિત્ય છે કે અનિત્ય ? નિત્ય તે કહી શકશે નહીં કારણ કે–પરમાણુની નિત્યતાના ખંડનની જેમ સ્કૂલની નિત્યતાનું પણ ખંડન થઈ શકે છે. અનિત્ય પણ કહી શકે નહીં કારણ કે સ્થૂલ અર્થની ઉત્પત્તિમાં થલ અર્થ કારણ છે કે પરમાણુઓ ? પ્રથમ પક્ષ તે અત્યંત સ્થૂલઅસાર છે, કારણ કે ચૂલાદ્વૈતવાદ-સ્થલાદ્વૈતપક્ષ તે વાચાલ પુરુ દ્વારા પણ કથન કરવાને યોગ્ય નથી, કારણ કે-સૂમની અપેક્ષાએ જ સ્કૂલની व्यवस्था (A) थाय छे. सभ-जुपन-(मा२)नी अपेक्षा शुक्सय-पाया સ્થલ છે. અણુ કારણ છે એમ કહો તે–આ સ્થૂલાઈ પક્ષ પછીને જે તદુભય સ્વભાવાર્થ પક્ષ છે, તેને સ્વીકાર કર્યો કહેવાશે. સ્થલ અને અણુ એમ તદુભય
१ बदरापेक्षया कुवलयस्य स्थूलत्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org