________________
स्याद्वादरत्नाकरस्य नवविशेषणानां सपासाः ।
२३७ द्धान्तिकतार्किकवैयाकरणकविचक्राणि, तेषु तेषां वा चक्रवर्तिनः सहृदयसैद्धान्तिकता. र्किकवैयाकरणकविचक्रचक्रवर्तिनः, शोभनं विहितमनुष्टानं येषां ते सुविहिताः, सुगृहीतं च तत् नामधेयं च सुगृहीतनामधेयम् अस्ति येषां ते सुगृहीतनामधेयाः, अस्माकं गुरवः अस्मद्गुरवः, श्रिया युक्ताः देवसूरयः श्रीदेवसूरयः सहृदयसैद्धान्तिकतार्किकवैयाकरणकविचक्रवर्तिनच सुविहिताश्च सुगृहीतनाधेयाश्च अस्मद्गुरवश्च ते श्रीदेवग्यः सहृदयसैद्धान्तिकतार्किकवैयाकरणकवि चक्रचक्रवर्तिसुविहितसुगृहीतनामधेयाऽस्मदगुरुश्रीदेवसूरयः, तैः । (१) स्याद्वादा एव रत्नानि स्याद्वादरत्नानि, स्याद्वादस्नानामाकरः स्याद्वादरत्नाकरः,
तस्मिन् । (२) स्याद्वादो रनाकर इव-स्याद्वादरत्नाकरः, तस्मिन् । (३) स्यादवाद एव रत्नाकरः स्याद्वादरत्नाकरः, तस्मिन् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org